राष्ट्राय समाजाय च जीवनसमर्पणं जीवितुं सर्वोत्तमः उपायः अस्ति – श्रीमतिः द्रौपदी मुर्मू:
हिमसंस्कृतवार्ता: – राष्ट्रपतिपदासीना श्रीमतिः द्रौपदी मुर्मू: अवदत् यत् राष्ट्राय समाजाय च जीवनसमर्पणं जीवितुं सर्वोत्तमः उपायः अस्ति। राष्ट्रपतिना नवीदिल्लीनगरस्य राष्ट्रपतिभवने उक्तवक्तव्यं द्विसहस्र-अष्टादशतः द्विसहस्र-एकविंशतिवर्षाणां अवधेः कृते द्विपञ्चाशत्तमे राष्ट्रपतिस्काउट्स् एण्ड् गाइड्स् पुरस्कारसमारोहे प्राकाशयत्। कार्यक्रमेस्मिन् राष्ट्रपतिना भारत-स्काउट्-एण्ड् गाइड्स् इत्यस्य षोडश स्काउट्, गाइड्, रोवर्स तथा च रेन्जर्स इत्येतेभ्यः तेषाम् अनुशासनाय समाजसेवायै च पुरस्काराः प्रमाणपत्राणि च प्रदत्तानि । सभां सम्बोधयती श्रीमतिः मुर्मूः अवदत् यत् भारतस्काउट् एण्ड् गाइड् इत्यादयः संस्थाः यूनां मध्ये नैतिकमूल्यैः सह निस्वार्थसेवायाः देशभक्तेः च आदर्शान् संस्थापयन्ति।
राष्ट्राय समाजाय च जीवनसमर्पणं जीवितुं सर्वोत्तमः उपायः अस्ति – श्रीमतिः द्रौपदी मुर्मू:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment