बॉबी देओल-रणवीरसिंहयो: चलच्चित्रे दर्शनं दास्यति दक्षिणस्य श्रीलीला
वार्ताहर: – जगदीश डाभी
मुम्बई । बॉलीवुड-नायक: रणवीरसिंहः धुरन्धर इति चलच्चित्रस्य कारणात् अद्यकाले वार्तायां वर्तते। अधुना एव अस्य चलच्चित्रस्य विज्ञापन पुटकं प्रदर्शितम् अभवत्। पुटक-मध्ये रणवीरसिंहस्य दीर्घकेशरूपं दृष्ट्वा प्रशंसकाः आश्चर्यचकिताः भवन्ति। अस्मिन् चलच्चित्रे रणवीरः गुप्तकारकस्य भूमिकायां दृश्यते । इदं चलच्चित्रं दिसम्बरमासे प्रदर्शितं भविष्यति। वार्तानुसारं रणवीरसिंहः अस्य चलच्चित्रस्य चित्रोतलनं समाप्तं कृतवान् । सः अधुना डॉन ३, शक्तिमानयोः च कार्यं आरभेत । अधुना एव रणवीरसिंहस्य महती वार्ता आगता । रणवीर: एकशन्-चलच्चित्रे दर्शनं दास्यति । अस्मिन् एक्शन्-चलच्चित्रे बॉबी देओल: अपि दर्शनं दास्यति । एतत् बॉबी देओलस्य रणवीरसिंहस्य च एकत्र प्रथमं चलच्चित्रं भविष्यति। द्वयोः तारकयोः चलच्चित्रे प्रचण्डं एक्शनं कुर्वतः दृश्यन्ते। चलच्चित्रस्य नाम अद्यापि न निर्णीतम्। इदानीं दक्षिणस्य अभिनेत्री श्रीलीला रणवीरसिंहस्य, बॉबी देओलस्य च अस्मिन् एक्शन् चलच्चित्रे प्रविष्टा इति वार्ता आगच्छति। श्रीलीला अतीव शीघ्रमेव कार्तिक आर्यस्य चलच्चित्रेण बॉलीवुड-क्षेत्रे पदार्पणं कर्तुं गच्छति। चलच्चित्रस्य चित्रोतलनं सम्पन्नम् अस्ति । श्रीलीला कार्तिकस्य च चलच्चित्रम् अतीव शीघ्रमेव प्रदर्शितं भविष्यति। प्रथमचलच्चित्रस्य प्रदर्शनात् पूर्वमपि श्रीलीला रणवीर-बॉबीयोः चलच्चित्रस्य प्रस्तावः प्राप्तः अस्ति । अस्मिन् चलच्चित्रे मुख्यनायिकायाः भूमिकायां श्रीलीला दृश्यते । परन्तु अद्यापि तस्य आधिकारिकघोषणा न कृता।