श्रीमद्भागवतप्रवचनम्- १५
कुमाराः वदन्तः आसन् यत्, नारद! सत्यभाषणपूर्वकं तथा ब्रह्मचर्यपालनपूर्वकं सदैव भागवतकथायाः श्रवणम् अत्यन्तम् उत्तमं मन्यते । परन्तु कलियुगे एतत् कठिनं, प्रायः न सम्भवेद्वा; तस्मात् शुकदेवेन यः विशेषविधिः निर्दिष्टः वर्तते, सः ज्ञातव्यः। कलियुगे बहुदिनानि यावत् चित्तवृत्तीनां वशीकरणं, नियमबद्धता, पुण्यकार्यार्थं दीक्षितता इत्यादिकं कठिनकार्यम्; तस्मात् सप्ताहश्रवणस्य विधिः वर्तते। श्रद्धापूर्वकं कदाचिदपि श्रवणेन, अथवा माघमासे श्रवणेन यत्फलं प्राप्यते, तदेव फलं श्रीशुकदेवेन सप्ताहश्रवणात् लभ्यते इति निर्दिष्टमस्ति। मनसः असंयमः, रोगाणां बहुलता, अल्पायुः इत्यादिकारणतः, तथा कलियुगे बहूनां दोषाणां सम्भावनातः हि सप्ताहश्रवणस्य विधानं कृतं वर्तते। यत्फलं तपसा, योगेन, समाधिना चापि न प्राप्यते, तत् सर्वाङ्गरूपेण कृतेन सप्ताहश्रवणेन, सहजतया हि उपलभ्यते। सप्ताहश्रवणं यज्ञात् व्रतात्, तपसः चापि उत्कृष्टतरं वर्तते। किमधिकम्! एतत् सप्ताहश्रवणं सर्वसाधनम् अतिक्रम्य गर्जति।
शौनकः पृष्टवान्- सूतवर्य! एतत्तु भवता आश्चर्यकरं वचनं कथितम्। अवश्यमपि इदं भागवतपुराणं योगवेत्तुः ब्रह्मदेवस्य अपि आदिकारणं श्रीनारायणं निरूपयति; परन्तु एतत् कथानकं मोक्षप्राप्तिकराणां ज्ञानादिसर्वसाधनानाम् अपि तिरस्कारं कृत्वा, तेभ्यः साधनेभ्यः अपि कथम् उत्कृष्टतां गतम्?
सूतदेवः अकथयत्- शौनक! यदा भगवान् श्रीकृष्णः एतत् धराधाम परित्यज्य स्वकीयं नित्यधाम प्रति गन्तुम् उद्यतः अभवत्, तदा तस्य श्रीमुखात् एकादशस्कन्दस्य ज्ञानोपदेशं विश्रुत्य अपि उद्धवः एवं पृष्टवान्- ‘गोविन्द! भक्तानां कार्यं विधाय अधुना त्वं परमधाम यास्यसि, परन्तु मन्मनसि एका महती चिन्ता विद्यमाना अस्ति, तच्छ्रुत्वा माम् आश्वासय, सुखञ्च यच्छ। इतः परं शीघ्रमेव घोरकलिकालः समागच्छेत्, तस्मात् संसारे पुनः अनेके दुष्टाः प्रादुर्भवेयुः; तेषां संसर्गेण यदा बहवः सज्जनाः अपि उग्रमतयः भवेयुः, तदा तेषां भारेण भारयुता गोरूपा इयं पृथ्वी कस्य शरणम् आगच्छेत्? हे कमलनयन! अहं तु भवदतिरिच्य अस्याः रक्षकम् अपरं न कमपि पश्यामि। तस्मात् कारणात् भक्तवत्सल प्रभो! त्वं साधूनामुपरि कृपां विधाय, इतः मा क्वापि गच्छ । त्वं स्वयं निराकारः तथा चिन्मात्रमेव सन्नपि भक्तकल्याणार्थं हि एनं सगुणरूपं धृतवान् असि नु? तव वियोगात् ते भक्तजनाः पृथ्व्यां कथं स्थातुमर्हेयुः? निर्गुणोपासनं तु कष्टकरमेव, अतः इतोऽपि विचारय भगवन्! इति, शुभम्। (माहात्म्यम् -०३/४६-५९)
-नारदः।
श्रीमद्भागवतप्रवचनम्- १५ ।। सत्यभाषणपूर्वकं तथा ब्रह्मचर्यपालनपूर्वकं सदैव भागवतकथायाः श्रवणम् अत्यन्तम् उत्तमम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
