भाषायाः शुद्धि: व्याकरणेन एव भवति- डॉ. ज्ञानेन्द्र सापकोटावर्य:
हिमसंस्कृतवार्ता:- सचिनशर्मा, मोदीनगरम्, गाजियाबादम् , उ. प्र.
उत्तरप्रदेश- संस्कृत- संस्थानस्य निदेशकः विनय श्रीवास्तवः। तदीये निर्देशणे सञ्चालितायाः ऑनलाइन- प्रशिक्षण- पाठ्यक्रम- निर्माण- योजनायाः अन्तर्गतानां सञ्चाल्यमानां सरल- संस्कृत- संभाषण- कक्षाणां परतया आयोज्यमानस्य प्रेरणासत्रस्य शुभारब्धस्तत्र। प्रेरणासत्रस्य मुख्यवक्ता वाराणसीनगरे स्थिते सम्पूर्णानन्द- संस्कृत- विश्वविद्यालयस्य व्याकरणविभागस्य सहायकाचार्य: डॉ. ज्ञानेन्द्रसापकोटावर्य: स्ववक्तव्ये संस्कृतभाषायाः महत्त्वं प्रकाश्य, “किम् नाम व्याकरणम्? कथं व्याकरणं विधीयते? सर्वदा किमर्थम् आवश्यकं व्याकरणम्?” इति विषये विमर्शः कृतः। तेन उक्तं यत् संस्कृतम् अस्माभिः निश्चयेन पठनीयम्। अस्माभिः अस्याः भाषायाः गौरवेन अनुभूयते।” संस्कृतभाषाया: व्याकरणस्य च अध्ययनं प्रचारः च अस्माकं सर्वेषां दायित्वम्। सुभाषितानि लोकानां सौहार्दं, विश्वबन्धुत्वं च जागरयन्ति। अतः प्रतिदिनं एकं सुभाषितं पठनीयम्, प्रतिदिनं योगाभ्यासः अपि करणीयः।
अन्ते प्रशिक्षक: सचिन शर्मा आगतानां सर्वेषां धन्यवादं प्रकटितवान्। कार्यक्रमे उत्तरप्रदेश- संस्कृत- संस्थानस्य अधिकारिणः योजनाप्रभारी प्रधानसहायकः भगवान सिंह चौहानः, प्रशिक्षणप्रमुखः सुधिष्ठमिश्रः, समन्वयका: धीरज मैठाणी, दिव्यरञ्जनः, राधाशर्मा अन्ये च मार्गदर्शकाः उपस्थिताः। प्रशिक्षुणा श्रद्धामिश्रया सरस्वतीवन्दना विहिता। संस्थानगीतिका अलीशया प्रस्तुता, स्वागतगीतं पूजागौड़वर्या गीतवती।
आगतानाम् अतिथीनां स्वागतं मुख्यवक्तुः च परिचयं प्रास्ताविकं समन्वयको दिव्यरञ्जनवर्य: कृतवान्। सत्रस्य सञ्चालनं प्रशिक्षकेण डॉ. दिवाकरमिश्रवर्येण कृतम्। समग्रं तकनीकीसञ्चालनम् अशोकमिश्रवर्येण निर्व्यूढम्। प्रशिक्षक: सचिन शर्मा प्रेसविज्ञप्तिं लिखितवान् प्रकाशनं च कारितवान्। आगतानाम् अतिथीनां परिचयं प्रशिक्षिका नीलमरानी कृतवती। कक्षायाः अनुभव:- आनन्दमिश्र:, वैदिक मङ्गलाचरणम्- विवेकपाण्डेय:, संस्कृतगीतम्- जाह्नवीवर्या, सुभाषितश्लोकानां प्रस्तुतिश्च प्रवीणप्रकाशवर्येण इत्येतैः छात्रैः च सम्प्रस्तुताः। शान्तिमन्त्रं नीतु- सक्सेना कृतवती। कार्यक्रमे सूचनादानं दिवाकरमिश्रेण कृतम्। एवं कार्यक्रमे प्रशिक्षकः सचिन शर्मा, अशोकमिश्रः, नीलमरानी, दिवाकरमिश्रः, च अपि समायोजनसहभागिनः आसन्। बहवः छात्राः, विदेशिकाश्च आसन्, सामाजिक-जनाः च अपि उत्साहेन उपस्थाय स्वं परिस्पदनं अयच्छन्। “सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः” इति भावेन कार्यक्रमः संपन्नः।
भाषायाः शुद्धि: व्याकरणेन एव भवति- डॉ. ज्ञानेन्द्र सापकोटावर्य:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
