श्रीमद्भागवतप्रवचनम् – ०२
ततः सूतदेवः उक्तवान् – प्रियशौनक ! तव हृदये भगवत्प्रेम वर्तते ; अत एव अहं सम्यग्विचार्य तुभ्यं सम्पूर्णसिद्धान्तानां निष्कर्षं श्रावयामि, यत् जन्ममृत्युभयं नाशयति । यत् भक्तिप्रवाहं वर्धयति, एवं यच्च भगवतः श्रीकृष्णस्य प्रसन्नतायाः प्रधानं कारणं स्यात्, तत् साधनम् अहं वच्मि, तच्च सावधानतया शृणु । श्रीशुकदेवः कलियुगीयानां जीवानां कालरूपसर्पस्य मुखग्रासत्रासस्य आत्यन्तिकनाशार्थं श्रीमद्भागवतशास्त्रस्य प्रवचनं कृतवान् । मनसः शुद्धर्थम् इतोऽपि उत्तमं नान्यत् किमपि साधनं स्यात् लोके । यदा मनुष्यस्य जन्मजन्मान्तराणां पुण्यम् उदेति, तदा तस्य कृते अस्य भागवतशास्त्रस्य प्राप्तिर्जायते । यदा शुकदेवः परीक्षिन्महाराजम् एतस्याः कथायाः श्रावणार्थं सभायां विराजमानः आसीत्, तदा देवाः हस्तेषु अमृतकलशं गृहीत्वा तत्र सम्प्राप्तवन्तः । देवाः स्वकार्यं साधयितुं महान्तः कुशलिनः भवन्ति ; अतः अत्रापि ते सर्वे शुकदेवमुनिं नमस्कृत्य उक्तवन्तः – ‘भवता एतत् अमृतं स्वीकृत्य, अस्य विनिमयत्वेन अस्मभ्यं कथामृतं प्रदीयताम्’ इति । एवं प्रकारेण परस्परं विनिमयं विधाय राजा परीक्षित् अमृतपानं करोतु, तथा वयं सर्वे श्रीमद्भागवतरूपस्य अमृतस्य पानं करवामहै । अस्मिन् संसारे क्व काचः, क्व महामूल्यवान् मणिः, तद्वत् क्व सुधा, क्व च कथा ? एतद् विचार्य श्रीशुकदेवः तत्समये देवानाम् उपहासं कृतवान् । ते भक्तिशून्याः, अर्थात् कथायाः अनधिकारिणः इति विज्ञाय तेभ्यः कथामृतस्य दानं न कृतवान् । इत्थं प्रकारेण इयं श्रीमद्भागवतकथा देवानां कृते अपि दुर्लभा । पुराकाले श्रीमद्भागवतस्य श्रवणात् हि राज्ञः परीक्षितः मुक्तिं विलोक्य ब्रह्मापि आश्चर्यचकितः जातः। सः सत्ययुगे तुलां बद्ध्वा सर्वाणि साधनानि अतोलयत् । इतराणि साधनानि तुलायां लघूनि जातानि, परं स्वमहत्तायाः कारणतः भागवतं हि गुरुतमं जातम् ।एतद् दृष्ट्वा सर्वे ऋषयः विस्मयापन्नाः अभवन् । ते निश्चितवन्तः यत् कलियुगे एतस्य भगवद्रूपस्य भागवतशास्त्रस्य पठनेन, श्रवणेन च तत्कालं हि मोक्षसिद्धिः जायते इति । यदि सप्ताहविधिना श्रवणं क्रियते तर्हि इयं भक्तिप्रदा भवति । पुराकाले एनां कथां दयापरायणाः सनकादि-ऋषयः देवर्षये नारदाय श्रावितवन्तः। यद्यपि देवर्षिः आदौ ब्रह्मणः मुखात् कथां श्रुतवान् आसीत्, तथापि सप्ताहश्रवणविधिं तु सः सनकादिभ्यः हि ज्ञातवान् आसीत्
इति, शुभम् ।
(माहात्म्यम् -०१/०९-२२)
— नारदः ।