श्रीमद्भागवतप्रवचनम् -०१
।। श्रीगणेशाय नमः ।।
।। श्रीव्यासाय नमः ।।
।। ओं नमो भगवते वासुदेवाय ।।
कृष्णं नारायणं वन्दे कृष्णं वन्दे व्रजप्रियम् ।
कृष्णं द्वैपायनं वन्दे कृष्णं वन्दे पृथासुतम् ।।
यः जगतः उत्पत्ति-स्थिति-विनाशानां कारणमस्ति, तथा आध्यात्मिकम्, आधिदैविकम्, आधिभौतिकं चेति तापत्रयस्य विनाशं करोति, तं सच्चिदानन्दस्वरूपं भगवन्तं श्रीकृष्णं वयं नमस्कुर्मः।
यस्मिन् समये श्रीशुकदेवस्य यज्ञोपवीत-संस्कारोऽपि न सञ्जातः आसीत्, तथा लौकिकं, वैदिकं चेति कर्मानुष्ठानस्य अवसरमपि सः न प्राप्तवान् आसीत्, तत्समये एकाकी एव संन्यासं स्वीकर्तुं सः गृहतः निर्गतः । तदवलोक्य तस्य पिता व्यासदेवः विरहेण कातरः भूत्वा गृहतः निर्गन्तं पुत्रमुद्दिश्य उक्तवान् – ‘वत्स वत्स ! त्वं क्व गच्छसि ?’ इति । तदा वृक्षाः हि श्रीशुकदेवस्य पक्षतः तन्मयाः भूत्वा तद्वार्तां तस्य पितरमुद्दिश्य ज्ञापितवन्तः । एतादृशं सर्वभूतहृदयस्वरूपं श्रीशुकदेवमुनिम् अहं नमस्करोमि ।
एकदा भगवत्कथायाः रसास्वादनाय कुशलमुनिवरः शौनकः नैमिषारण्यक्षेत्रे विराजमानं महामतिं सूतदेवं नमस्कृत्य तं पृष्टवान् – ‘सूतवर्य ! भवतः ज्ञानम् अज्ञानान्धकारस्य विनाशार्थं कोटिशः सूर्याणां समानमस्ति । भवान् कृपया अस्माकं श्रवणेन्द्रियार्थं रसायनामृतस्वरूपां सारगर्भितां कथां श्रावयतु । भक्तिः, ज्ञानं, वैराग्यम् इत्यादिभिः प्राप्तव्या महती विवेकवृद्धिः कथं जायते, तथा विष्णुभक्ताः कथं मायामोहादिभ्यः तरितुं शक्नुयुः ? अस्मिन् घोरकलिकाले जीवः प्रायः आसुरिकः स्वभावयुक्तः दृश्यते, विविधैः क्लेशैः आक्रान्तस्य अस्य शुद्धीकरणार्थं सर्वश्रेष्ठोपायः कः ?
सूतदेव ! भवान् अस्माकं कल्याणार्थम् एतादृशं शाश्वतं साधनं कथयतु, यत् पावनानाम् अपि पावनतमं स्यात्, यच्च भगवतः श्रीकृष्णस्य प्राप्तिकरं भवेत् । चिन्तामणिः केवलं लौकिकं सुखं प्रदातुम् अर्हति, कल्पवृक्षः च अधिकाधिकं स्वर्गीयं सुखं दातुं सक्षमः स्यात् । परन्तु गुरुदेवः प्रसन्नः सन् भगवतः योगिदुर्लभं नित्यं वैकुण्ठधाम प्रदातुम् अर्हति इति, शुभम् । (माहात्म्यम् ०१/०१-०८)
— नारदः ।