राष्ट्रीयवार्ताः भारतं स्वदेशीयप्रौद्योगिक्याः उपयोगेन ऑपरेशन सिन्दूर् इत्यस्मिन् सफलतां प्राप्तुं समर्थम् अभवत्- राष्ट्रियसुरक्षापरामर्शकः अजीत-डोभालः ।
हिमसंस्कृतवार्ता: – राष्ट्रियसुरक्षापरामर्शदः अजीत-डोभालः उक्तवान् यत् भारतं स्वदेशीयप्रौद्योगिक्याः उपयोगेन ऑपरेशन सिन्दूर् इत्यस्मिन् सफलतां प्राप्तुं समर्थम् अभवत्, तस्मात् अष्टाविंशतिनिमेशेषु एव पाकिस्तानपारं नव वा दश लक्ष्याणां प्रहारोऽपि साधितः। आईआईटी-मद्रास-इत्यस्य द्विषष्टि-तमे दीक्षान्तसमारोहे स्वभाषणे सः अवदत् यत् ऑपरेशन सिन्दूरस्य समये भारतीयसैन्यस्य पार्श्वे युद्धक्षेत्रे, ब्राहमोस्, एकीकृतवायु-निर्देशन-प्रणाली, रडार् इत्याद्यः अत्याधुनिक देशीयप्रौद्योगिक्यः आसन् । श्रीडोभालः अवदत् यत् एषः सहस्रवर्षेषु एकः सुसमयः वर्तते यद्धि देशस्य युवानः एतत् त्यक्तुं न शक्नुवन्ति। सः छात्रान् युवान् च आह्वानं कृतवान् यत् ते दुर्लभपृथिवीखनिजाः, कृत्रिमबुद्धिः, क्वाण्टम् कम्प्यूटिङ्ग् च इत्यादीनां संसाधनानाम् उपयोगेन, सप्तचत्वारिंशदुत्तर-द्विसहस्रतमवर्षपर्यन्तं प्रौद्योगिकीनां आविष्कारं कृत्वा देशं विकसितराष्ट्र प्रति उन्नयेयुः । सः प्रतिपादितवान् यत्, शिक्षा-कौशल-प्रौद्योगिक्या युक्तं विशाल-युवजन-संख्याकं भारतं अग्रिमेषु वर्षेषु देशस्य सर्वांगिक-वृद्धै: योगदानं कर्तुं शक्नोति ।
सर्वकारेण देशस्य स्वच्छ-स्थायि-वस्तुवाहन-गतिशीलतायाः परिवर्तने सहायतार्थं विद्युत्-वाहनानां प्रोत्साहनार्थं योजना समारब्धा
हिमसंस्कृतवार्ता: – बृहत्-उद्यममन्त्री एच.डी. कुमारस्वामी पीएम ई-ड्राइव योजनायाः अन्तर्गतं ई-ट्रक इति विद्युच्चालित-ट्रक्-यानानां प्रोत्साहनार्थं योजनां प्रारब्धवान्। सर्वकारेण देशस्य स्वच्छ-स्थायि-वस्तुवाहन-गतिशीलतायाः परिवर्तने सहायतार्थं विद्युत्-वाहनानां समर्थनं प्रथमवारं आरब्धम्। अस्मिन् अवसरे वदन् एच्.डी. कुमारस्वामी प्रोक्तवान् यत् दिल्लीनगरे पञ्जीकृतानां प्रायः एकशतोत्तर-सहस्रम् ई-ट्रक-यानानां कृते प्रोत्साहनं दातुम्, समर्पितं प्रावधानं कृतम् अस्ति, यत्र एकशतकोटिरूप्यकाणां व्ययः भवेत् ।
अन्ताराष्ट्रियमुद्राकोषेण, यु.पि.आई इति मुद्रा-विनिमय-प्रणाल्याः प्रशंसा कृता । उक्तं च यत् अनया प्रणाल्या एव भारतं द्रुततर-मुद्राविनिमये विश्वनायकः अभवत्
हिमसंस्कृतवार्ता: – अन्ताराष्ट्रियमुद्राकोषेण युनिफाइड्-पेमेण्ट्स्-इण्टरफेस्-सिस्टम्, यु.पि.आई इत्यस्य मुद्रा-विनिमय-प्रणाल्याः प्रशंसा कृता। उक्तं च यत् अनया प्रणाल्या एव भारतं द्रुततर-मुद्राविनिमये विश्वनायकः अभवत् । “ग्रोइंग-रीटेल्-डिजिटल पेमेण्ट्स्” इति शीर्षकोपेते अस्मिन् लेखे उक्तं यत्- यूपीआई-इत्यनेन भारते डिजिटल-मुद्राविनिमय-परिदृश्यं परिवर्तितम् अस्ति ।
विभिन्नेषु सर्वकारीयविभागेषु संस्थासु च नवनियुक्तानां युवानां कृते एकपञ्चाशत्-सहस्राधिकानां नियुक्तिपत्रां वितरणं करिष्यति प्रधानमन्त्री नरेन्द्रमोदी।
हिमसंस्कृतवार्ता: – प्रधानमन्त्री नरेन्द्रमोदी आभासीयमाध्यमेन विभिन्नेषु सर्वकारीयविभागेषु संस्थासु च नवनियुक्तानां युवानां कृते एकपञ्चाशत्-सहस्राधिकानां नियुक्तिपत्रां वितरणं करिष्यति। सः अस्मिन् अवसरे नव-नियुक्तान् युवजनान् अपि सम्बोधयिष्यति। अवधेयमस्ति यत् षोडशतम-उद्योग-सम्मेलनम् देशे सप्तचत्वारिंशत् स्थानेषु भविष्यति। केन्द्रसर्वकारस्य मन्त्रालयेषु, विभिन्न-विभागेषु च एताः नियुक्तयः भवन्ति ।
श्रावणमासस्य कावडयात्रा गतदिवसे समारब्धा
हिमसंस्कृतवार्ता: – श्रावणमासस्य कावडयात्रा गतदिवसे समारब्धा । प्रातःकालादारभ्य बहुसंख्यकाः तीर्थयात्रिण: गङ्गाजलं समानेतुम् उत्तराखण्डस्य हरिद्वारम्, ऋषिकेशम्, नीलकण्ठमहादेवम्, गंगोत्री धाम च प्रविशन्तः सन्ति। प्राप्तवार्तानुसारं कावडयात्राम् अभिलक्ष्य सर्वकारेण प्रशासनेन च यात्रायाः सर्वाः पूर्वसिद्धताः कृताः सन्ति ।
जम्मू-कश्मीरे राज्य-अन्वेषण-सम्भागेन त्रयेषु स्थानेषु अन्वेषणाभियानं कृतम्
हिमसंस्कृतवार्ता: – जम्मू-कश्मीरे राज्य-अन्वेषण-सम्भागेन आतङ्कवाद-वित्तपोषण-अन्वेषणस्य भागरूपेण जम्मू, डोडा, हण्डवाड़ा इत्यादिषु त्रयेषु स्थानेषु अन्वेषणाभियानं कृतम्। क्रिप्टोमुद्रायाः माध्यमेन सीमापारं वित्तपोषणं कृत्वा, आतङ्कवादस्य प्रेरणायाः अथ, शान्तेः अस्थिरता-प्रयत्नानां च षड्यंत्रं लक्ष्यीकृत्य, अन्वेषणमिदं कृतम् ।