राष्ट्रीयवार्ताः- निर्वाचनायोगेन मतदातृ-सूच्यां कृतं संशोधनं संविधानस्य जनादेशानुगुणम् वर्तते सर्वोच्चन्यायालयः
हिमसंस्कृतवार्ता: – सर्वोच्चन्यायालयः प्रोक्तवान् यत् बिहारे निर्वाचनायोगेन मतदातृ-सूच्यां कृतं संशोधनं संविधानस्य जनादेशानुगुणं वर्तते, परञ्च न्यायालयेन विशिष्ट-गहन-संशोधनस्य समयं विरुध्य प्रश्नचिह्नं समुत्थापितम् अस्ति । न्यायालयेन न्यायिकपक्षस्य सुरक्षायै आधार-अन्न-निर्वाचन-प्रपत्राणि अपि नागरिकतायाः सत्यापनाय स्वीकर्तुं निर्वाचनायोगः कथितः अस्ति। न्यायालयेन पृष्टम् अस्ति यत् किमर्थम् एषः अभ्यासः बिहार-विधानसभा-नर्वाचनैः सह प्रयुज्यते अपि च निर्वाचनातिरिच्य सम्पूर्णदेशाय किमर्थं न कर्तुं शक्यते । न्यायमूर्तिः सुधांशु धूलियाँ, न्यायमूर्तिः जॉयमल्या-बागची इत्यनयोः पीठेन टिप्पणिः कृता अस्ति यत् नागरिकतान्वीक्षणम् अधिकृत्य निर्वाचन-निकायेन पूर्वमेव अस्मिन् विषये कार्याचरणं विधातव्यम् आसीत् याचिकाकर्तृभिः विशिष्ट-गहन-संशोधनस्य सत्यापनसूच्याः आयोगेन कृतं आधार कार्ड इत्यस्य निष्कासनम् उद्दिश्य प्रश्नचिह्नम् उत्थापितम् अस्ति । निर्वाचन-निकायेन तर्कं प्रदत्तमस्ति यत् भारते मतदातृणां नागरिकतायाः सत्यापनम् आवश्यकं वर्तते अतएव आधार इत्यस्य उपयोगः नागरिकतायाः प्रमाणत्वेन न कर्तुं शक्यते । अस्मिन् विषये न्यायालयेन टिप्पणी कृता यत् निर्वाचननिकायेन विशिष्ट-गहन-संशोधनस्य अन्तर्गतं नागरिकतायाः सत्यापनं कर्तुं पूर्वमेव कार्यं विधातव्यम् आसीत् । शीर्षन्यायालयेन इदमपि कथितम् यत् नागरिकतायाः विषयः गृह-मंत्रालयाधीनम् अस्ति । अस्मिन् प्रकरणे अग्रिमः न्यायिकश्रवणं आगामि अष्टाविंशति-दिनाङ्के भविष्यति । शीर्षन्यायालयेन बिहारे आयोगस्य विशिष्ट-गहन-संशोधनं विरुध्य प्रख्यापिताः याचिकाः तत्कालरूपेण सूचीबद्धं कर्तुं सहमति व्यक्तीकृता आसीत् । न्यायालयस्य समक्षं विभिन्नाः याचिकाः समानीताः सन्ति यासु कथितम् अस्ति यत् यदि विशिष्ट-गहन-संशोधनं निर्देशितं कुर्वतः निर्वाचन-निकायादेशस्य पृथकीकरणं न क्रियते तर्हि अनेन अनुचितरूपेण अनुचितप्रक्रियया च स्वीकीयैः प्रतिनिधिनिर्वाचनैः वञ्चिताः भवितुं शक्यन्ते ।
बैंकक्षेत्राण्यतिरिच्य (एनबीएफसी) वित्तीय-संस्थानानां ऋण-प्रतिग्रहणस्य प्रथाः निष्पक्षतया, सहानुभूतिपूर्णतया सम्मानजनकरूपेण च संचालिताः कर्तव्याः- केन्द्रीय-वित्त-मंत्री
हिमसंस्कृतवार्ता: – केन्द्रीय-वित्त-मंत्री निर्मला सीतारमण-वर्या अकथयत् यत् बैंकक्षेत्राण्यतिरिच्य (एनबीएफसी) इति वित्तीय संस्थानानां ऋण-प्रतिग्रहणस्य प्रथाः निष्पक्षतया, सहानुभूतिपूर्णतया सम्मानजनकरूपेण च संचालिताः कर्तव्याः । सहैव रिजर्वबैंकस्य निष्पक्ष-व्यवहार-संहिता सबलं रेखांकितं कर्तव्यम् । सा नवदेहल्यां एनबीएफसी इत्यस्य संगोष्ठीं संबोधयन्ती एतद् वक्तव्यं दत्तवती । मन्त्रिवर्या प्रोक्तवती यत् वित्तीय-समावेशनस्य उपयोगः वित्तीय-शोषणस्य रूपेण न विधातुं शक्यते ।
मंत्रिवर्या एनबीएफसी इत्यस्मै शासनं, वित्तीयसङ्कट-प्रबन्धनं, उपभोक्तृणां च सुरक्षां एकीकृतं कर्तुम् अस्य आवश्यकतामपि रेखांकितम् अकरोत् ।
प्रवर्तननिदेशालयः अवैध-द्यूत-क्रीडानुप्रयोगान् यूट्यूब इत्यस्य विविध-वाहिनीनां सञ्चालकान् च विरुध्य धन-प्रवञ्चनस्य आरोपं प्रख्यापितवान्
हिमसंस्कृतवार्ता: – प्रवर्तननिदेशालयः अवैध द्यूत-क्रीडानुप्रयोगान् कथितरूपेण समर्थयितुं नवविंशतिसंख्याकान् अभिनेतृन् प्रभावशालिनः जनान्, यूट्यूब इत्यस्य वविध-वाहिनीनां सञ्चालकान् च विरुध्य धन-प्रवञ्चनस्य आरोपं प्रख्यापितवान् । एतादृशं कृत्यं सार्वजनिक-द्यूताधिनियमस्य उल्लंघनं करोति । चलचित्राभिनेतारः विजय-देवरकोंडा, राणा दग्गुबाती, प्रकाश-राजः, निधि-अग्रवाल, प्रणिता-सुभाषः च तेषु जनेषु सम्मिलिताः सन्ति येषु प्रवर्तननिदेशालयेन आरोपः प्रख्यापितः अस्ति । धन-प्रवञ्चनाधिनियमस्य अन्तर्गतं अन्वीक्षणं तेलंगाना-आन्ध्रप्रदेशयोः प्रख्यापितायाः पञ्च-प्राथमिक्याः आधारे कृतमस्ति । प्रवर्तन-निदेशकेन एषः विषयः तदा समुत्थापितः अस्ति यदा एकः याचिकाकर्ता एतान् व्यक्तिविशिष्टान् प्रदर्शितं कुर्वद्भिः विज्ञापनैः प्रभावितो भूत्वा कोटित्रयं रूप्यकाणां हानेः आरोपः प्रख्यापितः अस्ति ।
ऋतु-विज्ञान-विभागेन मध्यप्रदेश-छत्तीसगढ-विदर्भ-राज्येषु अग्रिमयोः दिवसद्वयोः वज्रपातेन सह प्रचण्डवृष्टेः ऑरेंज-अलर्ट इति नारङ्ग-वर्णीय-सन्चेतना प्रसारिता
हिमसंस्कृतवार्ता: – ऋतु-विज्ञान-विभागेन मध्यप्रदेश-छत्तीसगढ-विदर्भ-राज्येषु अग्रिमयोः दिवसद्वयोः वज्रपातेन सह प्रचण्डवृष्टेः ऑरेंज-अलर्ट इति नारङ्ग-वर्णीय-सन्चेतना प्रसारितास्ति। ऋतु-विभागेन दिल्लीनगरे, तत्समीपस्थे च एनसीआरक्षेत्रे, पञ्जाबे च आगामिषु चतुर्विंशति-होरासु वर्षायाः कृतेऽपि ऑरेंज-अलर्ट सन्चेतना प्रसारिता। आकाशवाण्या सह चर्चायां आईएमडी इत्यस्य वरिष्ठवैज्ञानिकेन आरके-जेनामणि इत्यनेन सूचितं यत् पश्चिम-हिम-राज्याणि समेत्य उत्तर-पश्चिम-भारते अपि प्रचण्डवृष्टिः निरन्तरं भविष्यति। महाराष्ट्रस्य विदर्भक्षेत्रे प्रचण्डवृष्ट्या जलाप्लवम् अभवत् । राज्यसर्वकारः स्थिति: निकटतया निरीक्षते। मानसूनेत्यस्य प्रभावः हिमाचलप्रदेशे निरन्तरं भवति, सामान्यजीवनं मुख्यतया प्रभावितम् अस्ति । राज्यस्य राजधानीं शिमलां समेत्य अधिकांशेषु भागेषु निरन्तरं वृष्टिः भवति। विगतासु चतुर्विंशति-होरासु सिरमौर-मण्डलस्य धौलाकुआं क्षेत्रे अष्टषष्ट्यधिकैकशतं मि.मी. परिमिता, तदनन्तरं बिलासपुर-मण्डले विंशत्यधिकैकशतं मि.मी.-परिमिता वर्षा जाता। ऋतुविभागेन राज्यस्य अधिकांशभागेषु प्रचण्डवृष्टेः येलो-अलर्ट इति पीतवार्णिकी-सञ्चेतना प्रसारिता अस्ति।
गुजरातस्य वडोदरा-जनपदे नद्यः उपरि सेतु-विखण्डन-घटनायां मृतकानां संख्या समेध्य पञ्चदश यावत् सञ्जाता, त्रयः अन्येऽपि शवाः प्राप्ताः
हिमसंस्कृतवार्ता: – गुजरातस्य वडोदरा-जनपदे नद्योपरि सेतु-विखण्डन-घटनायां मृतकानां संख्या समेध्य पञ्चदश यावत् सञ्जाता, त्रयः अन्येऽपि शवाः प्राप्ताः। अवधेयमस्ति यत् पादरा नगरस्य गम्भीरा-ग्रामस्य समीपे दशक-चतुष्टय-पुरातनस्य सेतोः भागः खण्डितः येन अनेकानि वाहनानि महीसागर-नद्यां पतितानि । घटनास्थले अद्यापि उद्धारकार्यं प्रचलति। जनपद-प्रशासनं निरन्तरं उद्धारकार्याणां निरीक्षणं कुर्वन् अस्ति। मुख्यमन्त्रिणा भूपेन्द्रपटेलेन अस्याः घटनायाः अन्वेषणस्य आदेशो प्रदत्तः अस्ति ।
प्रधानमन्त्री नरेन्द्रमोदी घाना, त्रिनिदाद एण्ड टोबैगो, अर्जेन्टिना, ब्राजील, नामिबिया चेत्यादीनां पञ्चराष्ट्राणां सफलयात्रायाः अनन्तरं नवदेहलीं प्रत्यागतवान्
हिमसंस्कृतवार्ता: – प्रधानमन्त्री नरेन्द्रमोदी घाना, त्रिनिदाद एण्ड टोबैगो, अर्जेन्टिना, ब्राजील, नामिबिया चेत्यादीनां पञ्चराष्ट्राणां सफलयात्रायाः अनन्तरं नवदेहलीं प्रत्यागतवान्। तस्य यात्रायाः अन्तिमे चरणे भारतेन नामिबियादेशेन च प्रधानमन्त्रिणः नरेन्द्रमोदिनः उपस्थितौ, नामिबियादेशे उद्यम-शीलता-विकास-केन्द्रस्य स्थापनायै, स्वास्थ्यचिकित्साक्षेत्रे च सहकार्यस्य विषये द्वयोः सन्धि-ज्ञापन-पत्रयोः हस्ताक्षरं कृतम् । यात्रावधौ अस्मिन् वर्षे डिजिटल पेमेंट सिस्टम इत्यस्य आरम्भावसरे तिस्रः घोषणाः अपि कृताः सन्ति ।