कलियाचक-आदर्शसंस्कृतमहाविद्यालये गुरुपूर्णिमोत्सवः परिपालितः
वार्ताहर: – जगदीश डाभी
गुरुपूर्णिमोत्सवः-२०२५, दिनाङ्कः- १०/०७/२०२५
केन्द्रीयसंस्कृतविश्वविद्यालयानुमोदिते पश्चिमबङ्गस्थपूर्वमेदिनीपुरमण्डलान्तर्गते कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालये १०.०७.२०२५ तमे दिनाङ्के गुरुवासरे आषाढ़पूर्णिमायां सशिक्षकैः छात्राः सहर्षं गुरुपूर्णिमानुष्ठानं पर्यपालयन्। महाविद्यालयस्य अस्य भारप्राप्तप्राचार्याणां ड० अमरेन्द्रकुमारमिश्रमहाभागानामाध्यक्ष्येण महता वैभवेन कार्यक्रमोऽयं परिपालितः। दीपप्रज्वालनेन भगवत्याः पूजनेन च आरब्धोऽयं कार्यक्रमः। महाविद्यालयस्य छात्रः सुमनपण्डा वैदिकमङ्गलाचरणेन तथा च महाविद्यालयस्य समे शिक्षकाः छात्राश्च लौकिकमङ्गलाचरणेन अनुष्ठामिदम् अग्रे सारितवन्तः। अस्य अनुष्ठानस्य सञ्चालकपदम् अलंकृतवन्तः व्याकरणविभागस्य विभागाध्यक्षाः श्रीमन्तः संकर्षणपण्डावर्याः। ततः सर्वे शिक्षकाः छात्राः च सम्मिल्य श्रीमद्भगवद्गीतायाः भक्तियोगाख्यस्य द्वादशाध्यायस्य पारायणम् अकुर्वन्। ततः अग्रे महाविद्यालयस्य समेऽपि छात्राः प्राध्यापकाः कर्मचारिणश्च क्रमशः अस्य दिवसस्य माहात्म्यं वर्णयामासुः। किञ्च महाविद्यालयस्य छात्रा तनुश्रीमान्ना सुन्दरेण गीतेन गुरूणां चरणवन्दनं प्रस्तूतवती। तथा च साहित्यविभागस्य अतिथ्यध्यापकः ड० दीपकप्रधानमहोदयः स्ववचोभिः सर्वेभ्यः धन्यवादान् समर्पितवान्। अन्ते शान्तिमन्त्रेण अनुष्ठानमिदं समाप्तिम् अगात्।