केनापि देशेन स्वार्थपूर्त्यर्थं खनिजानां, प्रौद्योगिकीनां, आपूर्ति-श्रृङ्खलानाञ्च शस्त्ररुपेण प्रयोगः न कर्त्तव्यः – प्रधानमन्त्री नरेन्द्रमोदी
हिमसंस्कृतवार्ता: – प्रधानमन्त्रिणा नरेन्द्रमोदिना कथितं यत् केनापि देशेन स्वार्थपूर्त्यर्थं खनिजानां, प्रौद्योगिकीनां, आपूर्ति-श्रृङ्खलानाञ्च शस्त्ररुपेण प्रयोगः न कर्त्तव्यः। तेनोदीरितं यत् महत्त्वपूर्णखनिजेषु प्रौद्योगिकीषु च सहयोगेन सह आपूर्ति-श्रृङ्खलानां सुरक्षार्थमपि अवधानं भवेत्। श्रीमोदिना प्रोक्तं यत् याचनाधारितनिर्णये दीर्घकालिक-वित्तीय-स्थैर्ये सहैव डेवलपमेंट-बैंक-परियोजनासु स्वस्थसामर्थ्याङ्कस्य च रक्षणे ध्यानं केन्द्रितं स्यात्।
प्रधानमन्त्रिणा ब्रिक्स-देशेभ्यः कृत्रिम बुद्धिमत्तायाः उत्तरदायित्वपूर्ण-प्रयोगाय आह्वानं कृतम्।
प्रधानमन्त्रिणा प्रोक्तं यत् एकविंशतितमे शतके जनानां प्रगतिः कल्याणञ्च प्रौद्योगिक्यां विशेषतः कृत्रिम बुद्धिमत्तायाञ्च आश्रितमस्ति। प्रधानमन्त्रिणा ब्रिक्स देशेभ्यः कृत्रिम-बुद्धिमत्तायाः उत्तरदायित्वपूर्ण-प्रयोगाय आह्वानं कृतम्।भारतेन प्रोक्तं यत् ब्रिक्सनेतृणां घोषणापत्रे वैश्विक-दक्षिणस्य अधिकांशचिन्ताः समावेशिताः सन्ति। रियो-डी-जेनेरियो इत्यत्र ब्रिक्स शिखर सम्मेलनस्य प्रथमदिनस्य समापनानन्तरं वार्ताहरान् सम्बोधयन् विदेशमन्त्रालये आर्थिक-सम्बन्ध-सचिवेन दम्मू-रवि इत्यमुना प्रोक्तं यत् प्रधानमन्त्रिणा मोदिना परिष्कारस्य आवश्यकता दृढतया प्रकाशिता । बहुपक्षीय-वैश्विक-सङ्घटनेषु एकस्मिन् सत्रे हस्तक्षेपावधौ प्रधानमन्त्रिणा प्रोदीरितं यत् संयुक्त-राष्ट्र-सुरक्षा-परिषदा,, विश्व-बैंकेन, अन्ताराष्ट्रिय-मुद्राकोषेण, विश्व-व्यापार-सङ्घटनेन च समाह्वानानि प्रतिबिम्बयितुं त्वरया परिष्कारः कर्त्तव्यः। दम्मू-रवि इत्यनेन एतदपि प्रोक्तं यत् पहलगाम-आतङ्क्याक्रमणस्य समेभ्यः देशेभ्यः सर्वसम्मत्या कठोरशब्देषु निन्दापि शिखर सम्मेलनस्य मुख्याकर्षणमासीत् ।
प्रधानमन्त्री नरेन्द्रमोदी-ः केनापि देशेन स्वार्थपूर्त्यर्थं खनिजानां, प्रौद्योगिकीनां, आपूर्ति-श्रृङ्खलानाञ्च शस्त्ररुपेण प्रयोगः न कर्त्तव्यः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment