क्यार्टूसंस्कृतमहाविद्यालयस्य आचार्य: डॉ.सन्तोषकुमार: ‘राज्यस्तरीय-संस्कृत-गौरव-सम्मान:’ इत्यनेन सम्मानित:
हिमाचल-राजकीय-संस्कृत-शिक्षक-परिषदा रविवासरे ‘राजकीय-वरिष्ठ-माध्यमिक-विद्यालय: बथालंग:’ इत्यत्र राज्यस्तरीय-संस्कृत-शिक्षक-सम्मान-कार्यक्रमस्य आयोजनं कृतम्। कार्यक्रमेऽस्मिन् अर्की विधानसभाया: विधायक: श्रीमान् संजय- अवस्थी महोदय: मुख्यातिथिरूपेणोपस्थित: । समारोहेऽस्मिन् हिमाचल-प्रदेशस्य २० संस्कृत-शिक्षका: राज्यस्तरीयेण ‘संस्कृत-गौरव-सम्मान:’ इत्यनेन सम्मानिता:, त्रयश्च संस्कृतशिक्षका: ‘संस्कृत-सेवा:सम्मान:’ इत्यनेन । ये संस्कृत-शिक्षका: कोरोना-कालस्य विषमपरिस्थितौ सर्वकारस्य ‘हर घर पाठशाला’ इति योजनाया: माध्यमेन स्वकीय-ज्ञानोत्साह-समर्पण-भावै: प्रतिगृहं प्रतिच्छात्रं वा प्रति संस्कृतं प्रापितवन्त:, संस्कृतक्षेत्रे च उत्कृष्टं कार्यं कृतवन्त:, ते संस्कृतं प्रति समर्पितशिक्षका: ‘संस्कृत-गौरव-सम्मान:’ इत्यनेन सम्मानिता: । एतेषु विंशतिशिक्षकेषु ‘राजकीय-संस्कृत-महाविद्यालय: क्यार्टू’ इत्यस्य दर्शनाचार्य: डॉ.सन्तोषकुमार: अपि अन्यतम: । समग्रठियोगक्षेत्रस्य कृते समाचारोऽयं गौरवास्पदं वर्तते । डॉ.सन्तोषकुमार: नालागढस्य ‘बैहली’ इति ग्रामस्य मूलवास्तव्यो वर्त्तते । अष्टादशवर्षेभ्य: अयं अनेकशिक्षणसंस्थानेषु अध्यापनकार्यं कुर्वन्नस्ति । सनातन-धर्मादर्श-संस्कृत-महाविद्यालय: डोहगी, श्रीसुनयना-संस्कृत-महाविद्यालय: स्वारघाट:, उत्तराखण्डस्य गुरुकुलायुर्वेदमहाविद्यालय: हरिद्वारम्, ऋषिकुलायुर्वेदमहाविद्यालय:, हरिद्वारम्, गुरुकुलकाङ्गडीविश्वविद्यालय: हरिद्वारम्, पतञ्जल्यायुर्वेदमहाविद्यादय: हरिद्वारम्, पतञ्जलिविश्वविद्यालय: हरिद्वारम्, राजकीय-वरिष्ठ-माध्यमिक-विद्यालय: कुण्डलू, राजकीय-वरिष्ठ-माध्यमिक-विद्यालय: बारियांँ इत्यादिषु अनेक – शिक्षणसंस्थानेषु अयं महोदय: शिक्षणकार्यं कृतवान् । अनेक-प्रकल्पानां माध्यमेन अयं महोदय: समाजं प्रति संस्कृतभाषां नेतुं प्रयासं कृतवान् । तस्मात् प्रेरणां प्राप्य अनेके जना: संस्कृतानुरागिणोऽभवन् । डॉ.सन्तोषकुमारस्य कृते राज्यस्तरीयस्य संस्कृत-गौरव-सम्मानस्य समाचार: महाविद्यालयस्य कृते ठियोगक्षेत्रस्य च कृते गौरवास्पदं वर्त्तते ।