हीरालालः संस्कृतशिक्षकपरिषदः कुल्लू इत्यस्य अध्यक्षः,प्रीतमसिंहः
महासचिवः,रविशर्मा वित्तसचिवः नियुक्तः
हिमाचलराजकीयसंस्कृतशिक्षकपरिषद्,जिल्लाकुल्लू इत्यस्य जिलाकार्यकारीनिर्वाचनं सम्पूर्णप्रजातान्त्रिकप्रक्रियायाः अन्तर्गतं आफलाइन-अनलाईन-माध्यमेन सौहार्दपूर्णवातावरणे २९ जून २०२५ दिनाङ्के सम्पन्ना। परिषदः सम्बद्धानां सर्वेषां अधिकारिणां, पर्यवेक्षकाणां, संस्कृतशिक्षकसमुदायस्य च सक्रियसहकारेण, परस्परसंवादेन, सहमत्या च अयं निर्वाचनः सम्पन्नः। निर्वाचनस्य अनन्तरं नवनिर्वाचितस्य जिलाकार्यकारीयाः निर्माणं निम्नलिखितरूपेण घोषितम् — अध्यक्ष – श्री हीरालालः (कमलेश) शासकीय बालिका वरिष्ठ माध्यमिक विद्यालयः, आनीमहासचिवः – श्री प्रीतमसिंहः (सरकारी उच्च विद्यालयः, भुलांगः)कोषाध्यक्षः – श्री रविशर्मा (सरकारी वरिष्ठ माध्यमिक विद्यालय, भलान) ब्लाकसैंजःनवनिर्वाचितैः पदाधिकारिभिः स्पष्टः संकल्पः कृतः यत् ते संस्कृतशिक्षकसमुदायस्य हिताय, संस्कृतभाषायाः प्रचारार्थं, संस्थां सशक्तं सक्रियं च कर्तुं च सद्भावेन, संवादेन, समर्पणेन च कार्यं करिष्यामः। परिषदः संगठनात्मकसुदृढीकरणाय एतत् निर्वाचनं महत्त्वपूर्णं सोपानं सिद्धं भविष्यति।
हीरालालः संस्कृतशिक्षकपरिषदः कुल्लू इत्यस्य अध्यक्षः, प्रीतमसिंहः महासचिवः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
