हेमसिंहः चम्बाजिलाध्यक्षः, सरनदास महासचिवः, सुरेशः कोषाध्यक्षः
हिमसंस्कृतवार्ताः। विपरीते वातावरणे प्रतिकूलपरिस्थितौ च चम्बा जनपदः संस्कृतशिक्षकपरिषदः निर्वाचनम् चम्बानगरस्य आर्यसमाजमन्दिरे रविवासरे सम्पन्नम्, अस्यां निर्वाचनप्रक्रियायां सम्भवतः चम्बाजनपदः 12 शिक्षाखण्डानां शिक्षकैः प्रतिभागिता। कार्यक्रमे पर्यवेक्षकरूपेण कांगड़ा जनपदः डॉ.अमनदीपशर्मा, निर्वाचनाधिकारिः रूपेण राजेशकुमारः उपस्थितौ आस्ताम्, तत्रैव चम्बाजनपदः पूर्वाध्यक्षेण अमरसेनवर्येण कार्यक्रमस्य अध्यक्षता कृता, कार्यक्रमे विशेषातिथिषु आर्यसमाजसभायाः महामन्त्री विक्रममहाजनः, उपप्रधानः खुशालः, संस्कृतप्रवक्ता अर्जुनः, रोशनः उपस्थिताः आसन्। निर्वाचने पूर्वाध्यक्षस्य अमरसेनस्य नेतृत्वे संस्कृतशिक्षकपरिषदा सम्मानीयाः संस्कृतशिक्षकाः खण्डपदाधिकारिणः राङ्कववस्त्रेण स्मृतिचिह्नेन च सम्मानिताः। अमरसेनवर्येण पूर्वसंस्कृतशिक्षकपरिषदः प्रतिवेदनं प्रस्तुत्य पूर्वकार्यकारिण्याः भङ्गः कृतः, तदनन्तरं सर्वैः संस्कृतशिक्षकैः परस्परसहमत्याः पीएमश्रीराजकीयवरिष्ठमाध्यमिकविद्यालयः चम्बा इत्यस्य शिक्षकः हेमसिंहः जिलाध्यक्षत्वेन निर्वाचितः, तत्रैव राजकीयवरिष्ठमाध्यमिकविद्यालयः लड्डा इत्यस्य संस्कृतशिक्षकः सरनदासः जिलामहासचिवः, रा.मा.वि.भनौता इत्यस्य शिक्षकः सुरेशकुमारः कोषाध्यक्षः, रा.मा.वि.जलाखड़ी इत्यस्य पूर्वाध्यक्षः अमरसेनः संरक्षकः, रा.मा.वि.पुखतला इत्यस्य संस्कृतशिक्षकः डोलीरामः वरिष्ठः उपाध्यक्षः, रा.व.मा.वि.थुलेलः इत्यस्य संस्कृतशिक्षकः रवीन्द्रकुमारः जिलासंगठनमन्त्री, रा.व.मा.वि.भरमौरस्य संस्कृतशिक्षकः अशोककुमारः मुख्यपरामर्शकत्वेन चयनितः। निर्वाचनस्यान्ते सर्वेभ्यः संस्कृतशिक्षकेभ्यः चायपानस्य व्यवस्थापनं कृत्वा संगोष्ठ्याः समापनं शान्तिमन्त्रेण कृतम्।
हेमसिंहः चम्बाजिलाध्यक्षः, सरनदास महासचिवः, सुरेशः कोषाध्यक्षः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
