भारतं विकासं परम्परां च स्वीकृत्य अवश्यं अग्रे गच्छति, राष्ट्रम् औपनिवेशिक-मनोवृत्तिञ्च त्यजेत् – प्रधानमन्त्री नरेन्द्रमोदी
हिमसंस्कृतवार्ता: – प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत्, राष्ट्रम् विकासं परम्परां च स्वीकृत्य अवश्यं अग्रे गच्छति। नवदेहल्यां आचार्य-विद्यानन्द-जी-महाराजस्य शतवार्षिकोत्सवस्य उद्घाटनं कुर्वन्, प्रधानमन्त्री अवदत् यत् एतस्य संकल्पस्य आधारेण, सर्वकारः देशस्य सांस्कृतिकस्थलानां तीर्थस्थानानां च विकासं कुर्वन् अस्ति। प्रधानमन्त्री अवदत् यत्, केन्द्रेण प्राकृतभाषायै शास्त्रीयभाषायाः स्थानं प्रदत्तम्। भारतस्य प्राचीन-पाण्डुलिपीनाम् डिजिटलीकरणायै अभियानमपि प्रचलति। सः राष्ट्रम् औपनिवेशिक-चिन्तायाः मुक्तं कर्तुं प्रार्थयत्। प्रार्प्तवार्तानुसारं कार्यक्रमोऽयं आचार्य विद्यानन्दजी महाराजस्य शततमे जन्मोत्सवावसरे भगवान् महावीर-अहिंसा-भारती-न्यासेन सह सर्वकारेण आयोजितायाः एकवर्षात्मिकायाः राष्ट्रिय-श्रद्धांजल्याः औपचारिकारम्भस्य निदर्शनम् आसीत्।
भारतं विकासं परम्परां च स्वीकृत्य अवश्यं अग्रे गच्छति, राष्ट्रम् औपनिवेशिक-मनोवृत्तिञ्च त्यजेत् – प्रधानमन्त्री नरेन्द्रमोदी
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
