कैप्टन शुभांशु शुक्ला एक्सिओम-4 चालकम् इत्येतं समेत्य आईएसएस इत्यत्र सम्प्राप्तवान
हिमसंस्कृतवार्ता: – भारतेन ऐतिह्यं विरचितम्। भारतीयवायुसेनादलस्य कैप्टन शुभांशु शुक्ला एक्सिओम-4 चालकम् इत्येतं समेत्य स्पेस-एक्स ड्रैगन अन्तरिक्षयानं अन्तर्राष्ट्रीयान्तरिक्षस्थानकेन- आईएसएस सह सफलतया भारतीयसमयानुसारं सायं चतुर्वादने सम्मिलितम्। एतेन अभियानेन भारतं एकचत्वारिंशत् वर्षाणाम् अनन्तरं मानव-अन्तरिक्ष उड्डयनं प्रति प्रत्यागच्छति, येन श्रीशुक्ला चतुराशीत्यधिक ऊनविंशतितमे वर्षे राकेश शर्मा-इत्यस्य अनन्तरम् अन्तरिक्षे द्वितीयः भारतीयः अस्ति। आईएसएस-याने चतुर्दश दिवसीय-वैज्ञानिक-अभियाने लखनऊनगरस्य शुभांशुशुक्ला अमेरिकी-पोलैण्ड्-हङ्ङ्गरी-देशानां अन्य-त्रिभिः अन्तरिक्षयात्रिभिः सह मिलित्वा हार्मोनी-मॉड्यूल्-इत्यस्मिन् स्थापितः। अनेन अभियानेन वैश्विक-अन्तरिक्ष-प्रौद्योगिक्याः नवीनतायां भारतस्य वर्धमानं नेतृत्वं प्रकाशितम् । नासा-समर्थनेन श्रीशुक्ला इसरो तथा जैवप्रौद्योगिकीविभागेन संयुक्तरूपेण विकसितानां अग्रणीजीवनविज्ञानप्रयोगानाम् नेतृत्वं करिष्यति। चालकदलस्य अभिवादनं कुर्वन् केन्द्रीयविज्ञानप्रौद्योगिकीमन्त्री डॉ. जितेन्द्रसिंहः शुक्लायाः अन्तरिक्षे प्रवेशः राष्ट्रगौरवस्य क्षणः इति उक्तवान्।
कैप्टन शुभांशु शुक्ला एक्सिओम-4 चालकम् इत्येतं समेत्य आईएसएस इत्यत्र सम्प्राप्तवान
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
