संस्कृताध्ययनेन प्रशासनिक- अधिकारिण: भवितुं शक्नुम: – प्रो. दीप्ति धर्माणी
हरियाणायां झज्जरे प्रबोधनवर्गस्य शुभारम्भ: जात:
संस्कृतभारती- हरियाणाप्रान्तद्वारा झज्जरजनपदस्य बेरीनामके स्थाने 22-29 जून 2025 पर्यन्तं लाला दयाराम तिगड़ानिया सरस्वती- शिशुमन्दिरे अष्टदिवसीय- प्रबोधनवर्गस्य उद्घाटनकार्यक्रम: जात:। कार्यक्रमेऽस्मिन् भिवानीस्थस्य चौधरी- बंसीलाल- विश्वविद्यालयस्य कुलपति: प्रो. दीप्तिधर्माणि मुख्यातिथिरूपेण समागता। कार्यक्रमस्य अध्यक्षता भारतीय- इतिहासलेखनसमिते: अध्यक्षेण डॉ. मनमोहनशर्मणा कृता। मुख्यवक्तृरूपेण उत्तरक्षेत्रस्य अध्यक्ष: प्रो.यशवीरसिंह: समुपस्थित:। पावनसानिध्यं झज्जरगुरुकुलस्य आचार्यविजयपालवर्यस्य प्राप्तम्। कार्यक्रमस्य प्रारम्भ: स्वस्तिवाचनपूर्वकं दीपप्रज्वालनेन अभवत्। अतिथीनां परिचय: स्वागतं च प्रान्तमन्त्रिणा प्रमोदमहोदयेन कृतम्। प्रबोधनवर्गस्य प्रास्ताविकं जयपालशास्त्रिवर्येण प्रस्तुतम्। प्रो.दीप्तिधर्माणि महोदयया उक्तं यत् संस्कृतम् अस्माकं मूलधरोहरं वर्तते। संस्कृतस्य संरक्षणं विना संस्काराणां संस्कृतेश्च संरक्षणमपि नास्ति सम्भवम्। संस्कृतमेव भारतस्य आत्मतत्वं वर्तते। ध्यातव्यं वर्तते यत् प्रो. दीप्ति धर्माणी वर्याया: विशेषप्रयासेन एव चौधरीबंसीलालविश्वविद्यालये संस्कृतविभागस्य शुभारम्भ: जात:। अनेन ज्ञायते यत् कुलपतिमहोदया संस्कृतानुरागिणी वर्तते। कुलपतिना संस्कृतं पठितुं शिक्षार्थिन: प्रेरिता:। यत् ते संस्कृतं पठित्वा प्रशासनिक- अधिकारिण: अपि भवितुं शक्नुवन्ति। प्रो. यशवीरवर्येण संस्कृतभारत्या: विविधकार्याणां विस्तरेण प्रतिपादनं कृतम्। तेनोक्तं यत् संस्कृतं वक्तुम् अस्माभि: कदापि संकोच: न करणीय:। गुरुकुलस्य आचार्येण विजयपालशास्त्रिणा कथितं यत् संस्कृतं न केवलं विश्वस्य भाषा वर्तते अपितु देवानां भाषा अपि कथ्यते। तेन कथितं यत् संस्कृतभारत्या: प्रयासेन एव हरियाणाराज्ये त्रिभाषासूत्रस्य परिपालनम् अभवत्। अध्यक्षीय- उद्बोधने डॉ. मनमोहनशर्मणा कथितं यत् संस्कृतभाषायां तथा सामर्थ्यं यत् मानवं दैवत्वगुणै: सम्पन्नं करोति। कार्यक्रमे मंचसंचालनं वर्गप्रशिक्षणप्रमुखेण रविन्द्रशास्त्रिवर्येण, अतिथीनां धन्यवादज्ञापनं प्रान्तसहमन्त्रिणा भूपेन्द्रवर्येण कृतम्। प्रबोधनवर्गस्य उद्घाटनकार्यक्रमे उत्तरक्षेत्रसंघटनमन्त्री नरेन्द्रकुमार:, पंजाबप्रान्तस्य सहमन्त्री अजय:, साहित्यप्रमुख: पुष्पेन्द्र:, सम्पर्कप्रमुख: अशोकबुचौली, प्रान्तप्रचारप्रमुख: सत्येन्द्र कुमार:, डॉ. जितेन्द्र:, डॉ. नरेश:, देवांश:, दीपकसरकार:, कृष्णशास्त्री, डॉ. नवीन:, रणजीत:, सोमवीर:, रामरतन:, सुरेन्द्र:, संदीप:, बृजेश: आदय: समुपस्थिता:।