Shrikhand Yatra : श्रीखण्डयात्रायै अन्तर्जालीयं भविष्यति पञ्जीकरणम्
हिमसंस्कृतवार्ता: – निरमण्ड:। श्रीखण्डमहादेवयात्रा 10 जुलाई तः 23 जुलाई पर्यन्तं आयोजिता अस्ति।श्रीखण्डमहादेवयात्रान्यासस्य उपाध्यक्षः मनमोहनसिंहः सर्वेभ्यः भक्तेभ्यः सूचितवान् यत् अस्मिन् वर्षे यात्रायाः ऑनलाइन पंजीकरणप्रक्रिया आरब्धा अस्ति। इच्छुक व्यक्तिः https:// shrikhandytra.hp.gov.in. इत्यत्र प्रवेशं कृत्वा स्वस्य यात्रापञ्जीकरणं कर्तुं शक्नुवन्ति। यात्रापञ्जीकरणं केवलं ऑनलाइनमाध्यमेन एव भविष्यति तथा च यात्रायाः अवधिमध्ये प्रतिदिनं अधिकतमं ८०० भक्ताः पञ्जीकरणं कर्तुं शक्नुवन्ति। अतः इच्छुकाः भक्ताः समये एव स्वस्य ऑनलाइन-पञ्जीकरणं कुर्वन्तु। यात्रायाः कालखण्डे आधारशिविरे सिंहगाड़ इत्यत्र आफलाइनपञ्जीकरणं केवलं ‘दुर्लभतमेषु’ प्रकरणेषु एव स्वीक्रियते। अतः सः तीर्थयात्रिकान् समये एव यात्रां पञ्जीकरणं कर्तुं उपदेशं दत्तवान्।
सः अवदत् यत् यात्रां न कृत्वा, चिकित्सायां अयोग्यः सति, आपदाकारणात् यात्रा निरस्ता भवति चेत् निर्धारितं पञ्जीकरणशुल्कं न प्रतिदास्यते। श्रीखण्डमहादेवयात्रान्यास: यात्राया: काले भक्तानां सुरक्षां सुनिश्चितं कर्तुं सुविधा: प्रदातुं च यथासंभवं प्रयासं करिष्यति। अधिकविवरणार्थं यात्रान्यासस्य जालपुटे प्रवेशं कर्तुं शक्नुवन्ति । अपि च, ये भक्ताः उपर्युक्तासु आधिकारिकतिथिभ्यः परेषु तिथौ यात्रां कुर्वन्तः गृहीताः सन्ति, तेषां विरुद्धं कठोरकार्यविधि: भविष्यति।
Shrikhand Yatra : श्रीखण्डयात्रायै अन्तर्जालीयं भविष्यति पञ्जीकरणम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
