प्रधानमन्त्रिणा ओडिशायां १८,६०० कोटिरूप्यकाणाणां विकासपरियोजनानाम् उद्धाटनं शिलान्यासश्च कृतः
प्रधानमन्त्री नरेन्द्र मोदी इत्यनेन गतदिने ओडिशायां १८,६०० कोटिरूप्यकाणां विकासपरियोजनानामुद्घाटनं शिलान्यासश्च कृतः। भुवनेश्वरस्य जनता प्राङ्गणे ओडिसायाः मुख्यमन्त्री मोहनचरणमाझी इत्यस्य नेतृत्वे प्रथमस्य भाजपासर्वकारस्य एकवर्षस्य समापनस्य निमित्तं जनसभां सम्बोधयन् श्री मोदीः अवदत् यत् देशात् नक्सलवादस्य उन्मूलनं शीघ्रमेव भविष्यति।
सः अवदत् यत् केन्द्रे भाजपासर्वकारः देशे नक्सलप्रभावितानां मण्डलानां संख्या २० तः न्यूना अभवत्।विगतदशके केन्द्रे भाजपासर्वकारः आदिवासीजनानाम् उत्थानार्थं प्रत्येकस्मिन् क्षेत्रे कार्यं कृतवान् इति सः अवदत्। काङ्ग्रेसस्य आलोचनां कुर्वन् प्रधानमन्त्रिणा उक्तं यत् काङ्ग्रेसशासने प्रचण्डभ्रष्टाचारस्य कारणेन जनानां जीवनं कठिनं जातम्।सः अवदत् यत् भाजपायाः सुशासनस्य आदर्शेन असम-त्रिपुरा-सहितेषु अनेकेषु राज्येषु शान्ति-विकासस्य मार्गः प्रशस्तः अभवत् । श्री मोदी इत्यनेन ओडिशा विजन दस्तावेज २०३६ अपि विमोचितः, अस्य प्रतिवेदनानुसारं २०३६ वर्षपर्यन्तं ओडिशा विकसितराज्यं भविष्यति इति आशां प्रकटितवान्। प्रधानमन्त्रिणा बीजुपटनायक-अन्तर्राष्ट्रीयविमानस्थानकात् जनतामैदानपर्यन्तं विशालः मार्गप्रदर्शनम् अपि आयोजितः ।
प्रधानमन्त्रिणा ओडिशायां १८,६०० कोटिरूप्यकाणाणां विकासपरियोजनानाम् उद्धाटनं शिलान्यासश्च कृतः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
