रमणायनम्, कः ईश्वरस्य प्रतिभू:?
स जातो येन जातेन याति वंश: समुन्नतिम्।
परिवर्तिनि संसारे मृत: को वा न जायते।।
तस्य एव जन्म सफलं य: जन्मानन्तरं स्वकुलम् उन्नतिं नयति। अन्यथा अस्मिन् परिवर्तनशीले संसारे क: मृत: जीव: जन्म न प्राप्नोति?
सुन्दर: स्वस्य द्वितीयापत्यस्य (प्रथमपुत्त्रस्य) नाम स्वस्य दिवङ्गतपितु: स्मरणार्थं नागस्वामी इत्येव कृतवान् आसीत्। तस्य जन्म १८७८ मध्ये अभवत्। स्वस्य कुलदैवतस्य तथा संन्यासं स्वीकृतवत: अग्रजस्य स्मरणार्थं सुन्दर: १८७९ मध्ये जातस्य एतस्य द्वितीयपुत्रस्य नाम वेङ्कटेश्वर: इत्येव अकरोत्।
तत्पश्चात् १८८६ मध्ये तस्य अपर: एक: पुत्र: जात: तस्य नाम नागसुन्दरम् इति कृतम्। अन्ते १८८८ मध्ये एका कन्या उत्पन्ना तस्या: नाम अलामेलु: इति। एवं सुन्दर:, अलगम्मा च एतयो: चत्वारि अपत्यानि अभवन्।
बाल: वेङ्कटेश्वर: वर्तनदृष्ट्या किञ्चित् विशिष्ट: बाल:। तस्य ज्ञातिषु मीनाक्षीनाम्नी काचित् बालिका आसीत्। सा यावत् मातु: दुग्धस्य पानं न करोति तावत् एष: अपि दुग्धपानाय न सिद्ध: भवति स्म। स्वस्य बुभुक्षाविषये स: अत्यन्तम् उदासीन: आसीत्। यदा स: शालां प्रवेशित: तदा तस्य नाम वेङ्कटेश्वर: इत्यस्य स्थाने वेङ्कटरमण: इति अङ्कितम् अभवत्। तदेव नाम अग्रे प्रचलितम्। लक्ष्मण- अय्यरनामा तस्य कुलस्य निकटबान्धव: तेलुगुभाषायाम् अभ्यस्त:। स: एतं बालकं ‘रमण’ अथवा कदाचित् ‘नायन-रमणी’ इत्यपि वदति स्म। नायनशब्दस्य तेलुगुमध्ये पिता इति अर्थ: भवति तथापि बालकानां विषये स्नेहप्रदर्शक: अपि स: शब्द:। वेङ्कटरमण: एतस्या: तेलुगुपरम्पराया: अनुकरणं कृत्वा स्वपितरं ‘नायन’ इति आह्वातुं प्रारब्धवान्। ततश्च अन्येपि गृहजना: बहिस्था: अपि सुन्दरं ‘नायन’ इत्येव वक्तुमारभन्त।
बाल: रमण: दृढनिश्चयी आसीत्। एकदा सुन्दर: कार्यवशात् गृहात् शकटेन अन्यत्र गन्तुं प्रस्थित:। गमनात्पूर्वं शकटे उपधानद्वयं तेन स्थापितम्। तदा बालरमण: उक्तवान् ‘एतयो: एकमुपधानं शकटात् अध: पतिष्यति।’ पित्रा एतत्कथनं दुर्लक्षितं तथापि सत्यमेव मार्गे तयोरेकम् उपधानं नष्टम् अभवत्। रमण: भविष्यद्घटनां कथं ज्ञातवान् स्यादिति पितु: महदाश्चर्यं जातम्।
वेङ्कटरमण: स्वभावेन अत्यन्तं संवेदनशील: आसीत्। तस्य पिता सुन्दर: एकदा तस्य केनापि कारणेन तर्जंनं कृतवान्। तदसहमान: एष: गृहात् निर्गत:। भोजनसमये स: नागतवान् अत: तस्यान्वेषणं सर्वै: आरब्धम्। बहुकालं यावत् अन्वेषणं कृतं तदा एष: सहायम्बामन्दिरे लब्ध:। प्राय: स: तत्र मातु: सहायम्बाया: मातृसुलभं रक्षणं प्राप्तुं तत्र गतवान् आसीत्।
वयस: अष्टमे वर्षे तस्य उपनयनं जातम्। वेङ्कटरमणस्य प्राथमिकशाला एकस्मिन् मण्डपे प्रचलति स्म। तत्रत्य: मुख्याध्यापक: मधुर- नायक- पिल्लैनामा आसीत्। पञ्चमकक्ष्यापर्यन्तम् अस्मिन् विद्यालये केवलं तमिलमेव पाठ्यते स्म।
सुन्दरस्य अपेक्षा आसीत् यत् तस्य पुत्रा: आङ्ग्लां पठित्वा सर्वकारीयकार्यालये नियोगं प्राप्नुयु:। तथापि तिरुचुळीमध्ये कोपि आङ्ग्लां न पाठयति स्म।
सुन्दरस्य अनुज: सुब्बु-अय्यर: दिण्डिगलम् इत्यत्र कार्यरत: आसीदिति उक्तम्। तत्र एकस्मिन् हिन्दूविद्यालये आङ्ग्लभाषा पाठ्यते स्म। तत्र आदौ नागस्वामी अनन्तरं च १८९१ मध्ये वेङ्कटरमण: अपि षष्ठ्यां कक्ष्यां प्रवेशित: अभवत्। उभौ अपि भ्रातरौ रामलक्ष्मणौ इव आस्ताम्। तयो: स्वास्थ्यम् उत्तमम् आसीत्। तयो: वर्तनं मैत्रीपूर्णम्। अत: बहव: बालका: तयो: मित्राणि अभवन्। अग्रज: वृक्षेषु आरोहणं कृत्वा शाखाया: शाखान्तरं प्रति कूर्दने निपुण: अत: ‘वानर:’ इति तस्य नामाभवत्। अनुज: वेङ्कटरमण: क्रीडासु सर्वदा विजयशील: अत: ‘स्वर्णस्पर्श:’ इति नाम्ना प्रसिद्ध: अभवत्। तेन शिवस्य ‘हिरण्यबाहु:’ इति नाम्न: स्मरणं भवति स्म। क्रीडायां वेङ्कटरमणस्य महती रुचि: आसीत्। मित्रै: सह मुष्टियुद्धम्, नियुद्धम्, धावनम्, पादकन्दुकक्रीडा एतेषु क्रीडाप्रकारेषु स: मग्न: भवति स्म। तेन तस्य शरीरयष्टि: बलिष्ठा जाता। यदि कलहकारणात् बालकेषु मुष्टीमुष्टि प्रवृत्ता तर्हि तस्य मित्राणि मन:पूतं ताडनं प्राप्नुवन्ति स्म। स: स्वयं निर्भय: ताडनसहने सर्वदा सज्ज:। तेन कारणेन तस्य समवयस्का: तस्मात् अधिकवयस्का: अपि तस्य विषये भीत्यादरयुक्ता: भवन्ति स्म।
अभिजित तोडकर
9145908156