प्रधानमन्त्री उज्ज्वलायोजनायाः अन्तर्गतं देशे अद्यावधि १० कोटि ३३ लक्षं निःशुल्कं एलपीजी-संयोजनं प्रदत्तम्
हिमसंस्कृतवार्ताः केन्द्रीय पेट्रोलियम-प्राकृतिकगैसमन्त्री हरदीपसिंहपुरी इत्यनेन उक्तं यत् प्रधानमन्त्रि उज्ज्वलायोजनायाः अन्तर्गतं देशे अद्यावधि १० कोटि ३३ लक्षं निःशुल्कं एलपीजी-संयोजनं प्रदत्तम् अस्ति। सः सार्वजनिकक्षेत्रस्य तैलविपणनकम्पनीनां, पेट्रोलियममन्त्रालयस्य च अधिकारिणां सभां सम्बोधयन् आसीत्। अस्मिन् अवसरे सः अवदत् यत् देशः हरित-स्थायि-प्रगतिशील-ऊर्जा-स्रोतेषु ध्यानं दत्त्वा ऊर्जा-सुरक्षा-लक्ष्यं प्रति गच्छति |समागमे केन्द्रीयमन्त्री देशे सर्वत्र ८८ सहस्राणि खुदराविक्रयस्थानानां विस्तारिते जालपुटे सौरऊर्जामूलसंरचनानां स्थापनायाः समीक्षां कृतवान्। एतावता एककिलोवाट् इत्यस्मात् न्यूना, त्रयः किलोवाट् वा अधिकं वा क्षमतायुक्ताः सौर ऊर्जा आधारभूतसंरचना नवशीतिसहस्रेषु आउटलेट्-स्थानेषु स्थापिताः सन्ति
प्रधानमन्त्री उज्ज्वलायोजनायाः अन्तर्गतं देशे अद्यावधि १० कोटि ३३ लक्षं निःशुल्कं एलपीजी-संयोजनं प्रदत्तम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
