साइप्रसदेशे प्रधाानमन्त्रिणः नरेन्द्रमोदिनः भव्यं स्वागतम्
हिमसंस्कृतवार्ता:- चतुर्दिनानां त्रयाणां देशानाम् भ्रमणार्थं प्रस्थः प्रधानमन्त्री नरेन्द्रमोदी रविवासरे सायं साइप्रस्-नगरं प्राप्तवान् । साइप्रस्-राष्ट्रपतिः निकोस-क्रिस्टोडौलिडेस्-इत्यनेन विमानस्थानके रक्तकालीनम् आवर्त्य तस्य स्वागतं कृतम् । राष्ट्रपतिः निकोसः पीएम मोदी इत्यनेन सह तस्य हस्तं गृहीत्वा गच्छन् दृश्यते स्म। अस्मिन् समये प्रधानमन्त्री तत्र निवसतां भारतीयसमुदायस्य जनान् अपि मिलितवान् । प्रधानमन्त्री १६ जूनपर्यन्तं साइप्रस्देशे तिष्ठति।सः १६ दिनाङ्के कनाडादेशं प्रति प्रस्थास्यति, जूनमासस्य १७ दिनाङ्के जी-७ शिखरसम्मेलने भागं गृह्णीयात् तदनन्तरं सः जूनमासस्य १८ दिनाङ्के क्रोएशियादेशं गमिष्यति, जूनमासस्य १९ दिनाङ्के भारतं प्रत्यागमिष्यति। प्रधानमन्त्रिणा-नरेन्द्र-मोदिना प्रोक्तम् त्रयाणां राष्ट्राणां यात्रा अस्ति आतङ्कवादविरोधसमर्थनार्थः अवसरः। प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् साइप्रस-कनाडा-क्रोएशिया-देशानां त्रयाणां राष्ट्राणां यात्रया अधिसीमम् आतङ्कवादस्य विरोधे युद्धे भारताय दृढ-समर्थनस्य कृते आभारं प्रकटयितुम् अवसरः अस्ति। तेन उक्तं यत् आतङ्कवादस्य सर्वेषु रूपेषु, आतङ्कवादस्य निवारणाय वैश्विक प्रयासान् प्रेरयितुं च अवसरः अस्ति। सायप्रस्-देशं प्रति प्रस्थानात् पूर्वं स्वस्य वक्तव्ये सः अवदत् यत् एषा यात्रा ऐतिहासिकसम्बन्धं सुदृढं कर्तुं व्यापार-निवेश-सुरक्षा-प्रौद्योगिक्याः क्षेत्रेषु अस्माकं सम्बन्धानां विस्तारं कर्तुं, जनम्-जनम्- प्रति आदानं प्रदानं च प्रवर्तयितुं अवसरं प्रददाति। सः अवदत् यत् साइप्रस् भूमध्यसागरीयक्षेत्रस्य यूरोपीयसङ्घस्य च मित्रम्, महत्त्वपूर्णः सहयोगी च अस्ति। प्रधानमन्त्रिणा उक्तं यत् कनाडादेशे जी-सप्त शिखरसम्मेलने ग्लोबल साउथ् इत्यस्य वैश्विकविषयेषु प्राथमिकतासु च विचारविनिमयस्य स्थानं प्रदास्यते। सः अवदत् यत् क्रोएशियादेशस्य यात्रया परस्परक्षेत्रेषु द्विपक्षीयसहकार्यस्य नूतनाः मार्गाः उद्घाटिताः भविष्यन्ति।
साइप्रसदेशे प्रधाानमन्त्रिणः नरेन्द्रमोदिनः भव्यं स्वागतम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment