प्रधानसचिवेन पंकजकुमारेण कृषि- विभागस्य पदभारः स्वीकृतः
हिमसंस्कृतवार्ता:- अंकुश कुमार:। बिहारराज्यस्य वरिष्ठ- भारतीय- प्रशासनिक- सेवाधिकारी पंकजकुमारः पटनानगरे स्थिते कृषिभवने औपचारिकरूपेण बिहारराज्यकृषिविभागस्य प्रधानसचिवपदस्य कार्यभारं स्वीकृतवान्। पदभारग्रहणस्य समये निवर्तमानसचिवः सञ्जयकुमार अग्रवालः प्रधानसचिवं सादरं स्वागतवान्। पदभारं स्वीकृत्य प्रधानसचिवेन विभागस्य वरिष्ठ- अधिकारिभिः सह एकः परिचयात्मकं मेलनम् आयोजितः। तस्मिन् समावेशे प्रधानसचिवेन सर्वेषाम् अधिकारिणां परिचयं प्राप्तं कृतवन्तः, विभागस्य प्रमुखयोजनाः, कार्यक्रमाः, वर्तमानकार्यप्रणाली च विषये विस्तृतं ज्ञानं प्राप्तम्। सः अधिकारिभ्यः विभागीयकार्येषु पारदर्शिता, समयपालनं, समर्पणं च अपेक्षितवान्। तेन उक्तं यत् “कृषिविभागः राज्यस्य मेरुदण्डरूपेण स्थितः अस्ति, अस्य सक्रियता च नवप्रयोगः च एव कृषकाणां समृद्धेः मूलमस्ति।”प्रधानसचिवेन निदेशः प्रदत्तः यत् सर्वेऽपि मण्डलाधिकारिणः आगामिसमीक्षासभायै स्व-स्वक्षेत्रे योजनानां प्रगतिस्थितिः, समस्याः च इत्यादि विषयानुसारं PPT प्रस्तुतिं सज्जां कुर्वन्तु। तेन उक्तं यत् यथावत्सूचनासंग्रहः, विश्लेषणम् एव प्रभाविप्रणयनस्य आधारभूतं तत्त्वमस्ति।
प्रधानसचिवेन स्पष्टतया उक्तं यत् “समस्ते अधिकारीणः परस्परं समन्वय-संवादयोः भावनया कार्यं कुर्वन्तु, यतः योजनानां लाभः यथार्थ- लाभार्थिभ्यः प्राप्तव्यः। विभागस्य प्रत्येकं कार्यं कृषकेन्द्रितं भवेत्। कृषकाः अस्माकं राष्ट्रस्य मेरुदण्डः, तेषां कल्याणाय सर्वैः समुचितं यत्नं कर्तव्यम्।”
प्रधानसचिवेन पंकजकुमारेण कृषि- विभागस्य पदभारः स्वीकृतः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment