रमणायनम्- श्रीरमणमहर्षिः
आमुखम्-भगवान् श्रीरमणमहर्षि: विंशतितमशतकस्य सर्वश्रेष्ठ: आध्यात्मिकसत्पुरुष:, अद्वैतवेदान्तस्य सर्वश्रेष्ठ: आचार्य: च इति जना: मन्यन्ते। १८७९ मध्ये तमिळनाडुराज्ये लब्धजन्मायं वयस: षोडशे वर्षे आत्मानुभवं प्राप्तवान्। तत: परं स: स्वगृहं त्यक्त्वा अरुणाचलक्षेत्रमागत्य तत्र आमरणं वयस: सप्ततितमवर्षपर्यन्तं निरन्तरं निवासम् अकरोत् जन्येभ्यश्च आध्यात्मिकं मार्गदर्शनं प्रादात्। तस्य आश्रम: अरुणाचलपर्वतस्य उपत्यकायां तिरुवण्णमलै इत्यस्मिन् नगरे अस्ति।
महर्षे: विषये श्रुत्वा तस्य उपदेशं ग्रन्थेषु पठित्वा वा देशविदेशेभ्य: भक्ता: तस्य समीपम् आगच्छन्ति स्म। महर्षि: १९५० तमे वर्षे स्थूलदेहत्यागं कृतवान्। तथापि अद्यापि तस्य समाधिस्थले स: अशरीरम् उपस्थित: अस्तीति भक्तानां भावना। अत: भक्तजना: रमणाश्रमं गच्छन्ति। तस्य समाधे: सन्निधौ ध्यानादिकं कृत्वा मन:शान्तिम् अधिगच्छन्ति।
यद्यपि महर्षि: शाङ्कराद्वैतवेदान्तस्य अनुमन्ता तथापि महर्षे: उपदेश: अन्येषां सर्वेषामाध्यात्मिकगुरूणाम् उपदेशात् भिन्न: असाधारणश्चास्ति। ब्रह्मेश्वरादीनां अज्ञातवस्तूनाम् उपासनापेक्षया स: आत्मोपासनमेव उपदिशति स्म। प्रतिजीवं विद्यमाना या अहंवृत्ति: सा एव ब्रह्मण: प्रत्यक्षगम्या प्रथमाभिव्यक्ति:। अत: तस्या: वृत्ते: मूलस्य अन्वेषणं कोऽहमिति सन्ततविचारणया कृत्वा तन्मूलभूतम् आत्मत्त्वं हृदि एव अनुभवितव्यम् इति महर्षे: उपदेशस्य केन्द्रीभूत: भाव:। एष: आत्मानुभूते: प्रत्यक्षतम: मार्ग: (Direct Method) तस्य उपदेशम् अन्योपदेशात् विशिनष्टि। महर्षे: जीवनचरित्रं त्रिभि: लेखकै: भिन्नभिन्नभाषासु लिखितम् अस्ति। तेषु प्रथम: आसीत् बी वी नरसिंह-स्वामी। तेन आङ्गलभाषया लिखितं महर्षे: जीवनचरित्रं महर्षे: जीवनकाले एव १९३१ मध्ये Self realisation इति नाम्ना प्रकाशतां गतम्। द्वितीयं तमिलभाषया रमणविजयम् इति नाम्ना लिखितं चरित्रमपि १९३१ मध्ये प्रकाशितम् अभवत्। एतस्य लेखक: आसीत् स्वामी शुद्धानन्दभारती। तेलुगुभाषया लिखितं महर्षे: चरित्रं श्रीरमणलीला इति शीर्षकेण १९३६ मध्ये प्रसिद्धिं प्राप्नोत्। एतस्य लेखक: आसीत् श्रीकृष्णभिक्षु:।
एतेषु मया रमणलीला तथा self realisation एतद्द्वयं पठितम् अस्ति। एतयो: आधारेण रमणमहर्षे: संस्कृतचरित्रस्य लेखनस्य प्रयासोऽयं मया विधीयते। अनेन रमण: प्रीयताम्।
-अभिजित तोडकर
9145908156