हिमाचलस्य नूतनः ‘आरोग्यविहार:’ भूलाहस्य जैवविविधतोद्यानं पर्यटकानां प्रियं गन्तव्यं भवति
हिमसंस्कृतवार्ता:- लघ्वीकाशी मण्डी। राज्यसर्वकारस्य वनविभागेन जंजैहली-क्षेत्रस्य भुलाहे विकसितं जैवविविधता-उद्यानम् अद्यत्वे पर्यटकानां आकर्षणकेन्द्रम् अस्ति। एतद् उद्यानं न केवलं प्राकृतिकसौन्दर्यस्य कृते प्रसिद्धः भवति, अपितु राज्यसर्वकारस्य इको- पर्यटननीतेः सफलोदाहरणरूपेण अपि उद्भवति।
शिकारीदेव्याः चरणयोः स्थितम् एतद् उद्यानम् आध्यात्मिकतायाः, प्रकृतेः, साहसिकतायाः च अद्वितीयं समागमं प्रस्तुतं करोति। प्रतिवर्षं सहस्राणि भक्ताः देवीदर्शनार्थम् अत्र आगच्छन्ति, अधुना एतत् जैवविविधतानिकुञ्जं तेषां यात्रायाः अविस्मरणीय: भाग: भवति।भुलाह-उद्यानस्य सर्वाधिकं विशेषम् अस्ति यत् सघन-पाइन-वनानां मध्ये निर्मितानि चत्वारि सुन्दराणि वृक्षगृहाणि सन्ति, येषु पर्यटकानाम् साहसिकतायाः, विश्रामस्य च अनुभवः प्राप्यते एतेषु वृक्षगृहेषु ८ तः १० जनानां कृते आधुनिकसुविधाभिः सह निवासस्य सुविधा अस्ति। प्रकृतेः अङ्के रात्रौ व्यतीतस्य एषः अनुभवः केवलं १५०० रूप्यकेन प्रतिदिनं प्राप्तुं शक्यते। उद्यानस्य सानुः, देवदारुवनं, मुक्तगगनस्य अधः प्रसृतं हरितं च दृष्ट्वा एतद् स्थलं काश्मीरस्य प्रसिद्धस्थानात् कथमपि न्यूनं नास्ति। उद्यानस्य अन्तः वनविभागेन विविधजातीनां पौधशाला: विकसिताः सन्ति। यत्र स्थानीयाः दुर्लभाः च वनस्पतयः दृश्यन्ते। वनविभागेन नियुक्तानां प्रशिक्षितानां परिचर्याकर्तृणां माध्यमेन उद्यानस्य संचालनं परिपालनं च क्रियते। अपरपक्षे परिक्षेत्राधिकारी वनविभागः महेन्द्रसिंहः अवदत् यत् स्थानीयजनैः सह देशस्य राज्यस्य च पर्यटकाः उद्यानं द्रष्टुं आगच्छन्ति। अत्र निर्मितस्य वृक्षगृहे पर्यटकाः अपि स्थातुं प्रकृतेः आनन्दं लब्धुं च शक्नुवन्ति।