विदेशेभ्यः प्रत्यागतेभ्यः सांसदेभ्यः मिलितवान् प्रधानमन्त्री
हिमसंस्कृतवार्ताः। प्रधानमन्त्री नरेन्द्रमोदी मंगलवासरे विश्वे पाकिस्तानस्य आतंकवादं विषये प्रतिपादयित्वा प्रत्यागतस्य प्रतिनिधिमण्डलस्य सदस्यान् मिलितवान्। अस्मिन् सर्वदलप्रतिनिधिमण्डले अनेकपक्षेभ्यः नेतारः आसन् । पीएम मोदी ७ लोककल्याणमार्गे स्वनिवासस्थाने नेतृभिः सह मिलितवान्। तेषां सह रात्रिभोजनमपि कृतवान् । पाक आतङ्कवादस्य प्रकाशनमिशनस्य विषये प्रधानमन्त्री सांसदानां प्रतिक्रियां गृहीतवान्। एतस्मिन् समये सांसदाः अवदन् यत् भारतेन आतङ्कवादविरुद्धं प्रबलसमर्थनं प्राप्तम्। सदस्याः प्रधानमन्त्रिणा सह स्वस्य अनुभवान् परसम्परं कृतवन्तः। केन्द्रसर्वकारेण पूर्वमेव ५० तः अधिकाः जनाः समाविष्टानां सप्तप्रतिनिधिमण्डलानां कार्यस्य प्रशंसा कृता, येषु अधिकांशः वर्तमानसांसदाः सन्ति । पूर्वसांसदाः पूर्वकूटनीतिज्ञाः च एतेषां प्रतिनिधिमण्डलानां भागाः आसन्, येषु ३३ विदेशीयराजधानीषु यूरोपीयसङ्घस्य च भ्रमणं कृतम् ।
विदेशेभ्यः प्रत्यागतेभ्यः सांसदेभ्यः मिलितवान् प्रधानमन्त्री
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
