अमेरीकायां विरोधे केचन आन्दोलनकारिणः पत्रकाराः च घातिताः
हिमसंस्कृतवार्ता: – कैलिफोर्नियायां व्याप्तस्य आप्रवासन-अभियानस्य विरुद्धं नवीनतम प्रदर्शनेषु लॉस एन्जल्स-नगरस्य मध्यभागे सहस्राधिकाः आन्दोलनकारिणः नैशनल गार्ड्स इति राष्ट्रिय-रक्षक-सैनिकैः सह संघर्षं कृतवन्तः। आप्रवासन-सीमाशुल्क-प्रवर्तन-संस्थायाः प्रतिनिधिभिः सह राष्ट्रिय-रक्षक-सैनिकाः जनसमूहं विकीर्णं कर्तुं बहुवारं अश्रु-धूम-ग्रेनेड्-इत्येतयोः प्रहारं कृतवन्तः। अस्मिन् सङ्घर्षे केचन आन्दोलनकारिणः पत्रकाराः च घातिताः। अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः गृहसुरक्षासचिवं रक्षासचिवं च व्यवस्थां पुनः स्थापयितुं सर्वाणि आवश्यकानि कार्याणि कर्तुं निर्देशं प्रदत्तवान्।
अमेरीकायां विरोधे केचन आन्दोलनकारिणः पत्रकाराः च घातिताः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
