KKSU Ramtek: कविकुलगुरु: कालिदाससंस्कृत- विश्वविद्यालये सामाजिक- वनविभागस्य सहयोगेन वृक्षारोपणम्
हिमसंस्कृतवार्ता:- नागपुरम्। कविकुलगुरु: कालिदाससंस्कृत- विश्वविद्यालय:, रामटेकम् इत्यनेन पर्यावरणदिवसस्योपलक्ष्ये विश्वविद्यालयपरिसरे वृक्षाः रोपिताः। विश्वविद्यालयस्य परिसरः हरितवर्णीयः अस्ति। आदरणीयप्रधानमन्त्री श्री नरेन्द्र मोदी इत्यनेन प्रारब्धस्य ‘एक: वृक्ष: मातु: नाम्ना’ अभियानस्य अनुरूपं कालिदाससंस्कृत- विश्वविद्यालयस्य कुलपतिः रामटेक परिसरे वृक्षारोपणं कृतवान्। रामटेकस्य विश्वविद्यालयपरिसरः हरितवर्णीयः अस्ति, तस्य हरितत्वस्य कृते सर्वप्रयत्नाः क्रियन्ते। एतदर्थं पारम्परिकवृक्षारोपणेन सह मियावाकीवनस्य अवधारणा कार्यान्वितं कृत्वा कस्मिन्चित् क्षेत्रे वृक्षारोपणं कृतम् अस्ति। शुद्धं प्राणवायुः प्रदातुं परिसरं हरितं स्थापयितुं च एषा विशेषा योजना अस्ति। एतदतिरिक्तं पृथक् स्थाने भृङ्गाणां कृते उद्यानं निर्मितम् अस्ति। विश्वपर्यावरणदिवसस्य अवसरे विश्वविद्यालयपरिसरस्य हरितीकरणस्य लक्ष्यं पुनः सिद्धम् अभवत्।
पर्यावरणदिवसस्य अवसरे प्रो. हरेराम: त्रिपाठी विशेषोपस्थितौ वृक्षारोपणं विहितम्। अस्य अभियानाय सामाजिकवनीकरणविभागस्य वनपाल: आर. आर. शुक्ला, वनपाल: एन. एन. केन्द्रे एवं तस्य सहयोगी धारणे इत्यस्य सहयोग: प्राप्त:। तेषां विशेषसन्निधिना आम्रवृक्षाः च रोपिताः।अस्मिन्नवसरे अवसरे विश्वविद्यालयस्य पुस्तकालयकर्मी डॉ. दीपक कापाडे, परीक्षानियंत्रक:, डॉ. केशवमोहरीर:, प्रशासनिकाधिकारी, उपरजिस्ट्रार, डॉ. रोशन अलोन, डॉ. स्मिता फडणवीस, सहायक रजिस्ट्रार, श्रीपद अभिनकर:, उप अभियंता, संतोष वाडीकर:, विजयजमनकर: च उत्साहपूर्वकं भागं स्वीकृतवन्त: वृक्षारोपणाभियाने च वृक्षा: रोपिता:। अस्मिन् कार्यक्रमे विश्वविद्यालयस्य उद्यानविभागात् विशेषसहकार्यं प्राप्तम्।