प्रोफेसर डॉ.सुतीन्द्रडोगरु-स्मारक-फाउडेशन-बैजनाथः द्वारा श्रद्धाञ्जलिः शब्दाञ्जलिश्च कार्यक्रमः सम्पन्नः
हिमसंस्कृतवार्ताः। प्रोफेसर डॉ.सुतीन्द्रडोगरु-स्मारक-फाउडेशन-बैजनाथः शेषसाहित्यसदनम्, पपरोला इत्यनयोः संयुक्तोपक्रमे गतदिने चामुंडा हॉल बैजनाथः इत्यत्र श्रद्धाञ्जलिः शब्दाञ्जलिश्च कार्यक्रमः सम्पन्नः। कार्यक्रमे केन्द्रीयविश्वविद्यालयः धर्मशाला इत्यस्य हिन्दी विभागस्य प्राध्यापकः चन्द्रकांतसिंहः मुख्यातिथित्वेन उपस्थितः जातः। अस्मिन् कार्यक्रमे प्रोफेसर (डॉ) सुतीन्द्र दोहारु इत्यस्या असामयिकं निधनं श्रद्धांजलिम् अर्पयितुं तस्याः महान् व्यक्तित्वं प्रकाशयितुं च साहित्यकाराः एकत्रिताः आसन्। अस्मिन् अवसरे तस्याः पतिः सर्वजीतदोहरुः, तस्य पुत्रः सर्वश्रेष्ठः डोहरु उपस्थितौ जातौ। कार्यक्रमे पूर्वविधायकः मुल्खराज प्रेमी सहितं स्थानीयाः गणमान्याः जनाः, अनेके संतजनाः उपस्थिताः अभवन्। शेषसाहित्यसदनस्य संस्थापकनिदेशकः शक्तिचन्दराणा, शेषसाहित्यसदनस्य अध्यक्षा सुरेशलता अवस्थी, शिवानी, रमेशचन्दकटोचः, सुरेशराजशर्मा, रजनीशअवस्थी, ओमप्रकाशराणा, कमलेशसूदः, आशुतोषराही, उषा कालिया, अरुणाव्यासः, डॉ.सुरेशसुबेहिया, संजयमैहरा, सुमनबाल, कान्तिसूदः. मञ्जूशर्मा, हाकमभारद्वाजः, शिवानी दियोलः, जोगिन्दरराणा इत्यादयः विद्वान्सः उपस्थिताः अभवन्। मुख्यातिथिना स्वसम्बोधने युवानः देशाय सर्वदा समर्पणाय प्रेरयन् कार्यक्रमस्य सफलायोजनाय आयोजकेभ्यः वर्धापनानि समर्पितानि।
प्रोफेसर डॉ.सुतीन्द्रडोगरु-स्मारक-फाउडेशन-बैजनाथः द्वारा श्रद्धाञ्जलिः शब्दाञ्जलिश्च कार्यक्रमः सम्पन्नः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
