Mandi News : जिलाप्रशासनस्य अभिनवपरिकल्पना अन्वी मण्डीजनपदस्य एकदिनस्य उपायुक्त (डीसी) अभवत्
जिलाप्रशासनेन ‘डीसी फ़ॉर ए डे’ अभियानं प्रारब्धम्
हिमसंस्कृतवार्ता: – लघ्वीकाशी।
युनां शिक्षाक्षेत्रे उत्तमप्रदर्शनार्थं प्रेरयितुं मेधावीछात्रान् प्रोत्साहयितुं च जनपदप्रशासनेन एकदिवसस्य कृते उपायुक्त: अर्थात् ‘डीसी फ़ॉर ए डे’ अभियानं प्रारब्धम्। अस्य अभिनवस्य उपक्रमस्य अन्तर्गतं सरकाघाटक्षेत्रस्य डूनग्रामस्य अन्वीसिंह एकदिनस्य कृते उपायुक्त अभवत्।
विक्रमसिंहठाकुर: अनिता वर्मा इत्यनयोः पुत्री अन्वी आलोकभारती-विद्यालय: कोटली इत्यस्य छात्रा अस्ति । अस्मिन् वर्षे हिमाचलप्रदेशविद्यालयशिक्षामण्डलस्य दशमश्रेणीपरीक्षायां मण्डले शीर्षस्थानं प्राप्य राज्ये चतुर्थस्थानं प्राप्तवती अस्ति। तस्याः परिश्रमस्य परिणामः एव अस्याः आशाजनकायाः कन्यायाः उपायुक्तस्य मण्डी इत्यस्य आसन्दे एकदिनं यावत् उपवेशनस्य अवसरः प्राप्तः । प्रातः ९ वादने उपायुक्तस्य अपूर्वदेवगनस्य सान्निध्ये सा कार्यालयं प्राप्तवती। जिलादण्डाधिकारिणः आसने उपविष्टमात्रेण तस्या: निजीकर्मचारिभि: औपचारिकरूपेण स्वागतं विहितम् । अन्व्याः पिता पितामहः अपि अस्मिन् अवसरे तया सह आसन् ।
अन्व्याः पूर्वं प्रथमं आह्वानं भूकम्पस्य पूर्वाभ्यासः आसीत् । अन्वी आभासीय-कक्षं प्राप्य सर्वेषां अधिकारिणां परिचयं प्राप्नोत् । तदनन्तरं सा पूर्वाभ्यासस्य निरीक्षणं कृतवती। उपायुक्तकार्यालयस्य विभिन्नशाखानां विषये अपि सूचना प्राप्तवती । पश्चात् सा क्षेत्रनिरीक्षणार्थम् अपि अगच्छत् । अस्मिन् अवसरे सा जनानां उपालम्भान् अपि श्रुत्वा सम्बन्धितविभागेभ्यः स्थले एव निराकरणं कर्तुं आदेशं दत्तवती।
अन्वी जीवनस्य स्मरणीयं क्षणं दिनं च इति अकथयत् । सा अवदत् यत् अद्य सा प्रशासनिककार्यस्य विषये अनेकानि व्यावहारिकवस्तूनि ज्ञातवती। ‘अपूर्व महोदय:’ इत्यनेन उपायुक्तत्वेन उत्तरदायित्वनिर्वहनविषये विस्तृतसूचना अपि दत्ता। सा ‘डीसी फॉर ए डे’ इत्यस्य अवसरं दत्तवान् इति उपायुक्तमण्डी इत्यस्य आभारं प्रकटितवती।
उपायुक्त अपूर्वदेवगनः अवदत् यत् मण्डलस्य बालकानां जीवनं सुदृढं कर्तुं विभिन्नस्तरेषु प्रयत्नाः क्रियन्ते। स्वस्य विद्यालयस्य, स्वस्य पुस्तकालयस्य अभियानेन च सह अधुना ‘डीसी फ़ॉर ए डे’ इति उपक्रमः कृतः अस्ति। अन्वीं अभिनन्दन् सः अवदत् यत् सर्वेषां बालकानां कृते उत्तमं कर्तुं क्षमता वर्तते, केवलं आवश्यकता अस्ति यत् तेभ्यः सम्यक् मार्गदर्शनं सम्यक् दिशां च दातव्यम्। एतेन ते जीवने स्वलक्ष्यं प्राप्तुं शक्नुवन्ति ।
सः अवदत् यत् अन्वी स्वदायित्वं बहु सम्यक् निर्वहति स्म । अन्वी इत्यस्याः उज्ज्वलभविष्यस्य कामना कृत्वा सः विश्वासं प्रकटितवान् यत् सा अस्मिन् अनुभवे प्रेरिता भविष्यति, जीवने स्वलक्ष्यं प्राप्तुं च उत्तमप्रयत्नान्, अधिकं परिश्रमं च करिष्यति।