उत्तरप्रदेशस्य मदरसेषु आङ्गलं गणितं च अनिवार्याः विषयाः भविष्यन्ति
हिमसंस्कृतवार्ताः। उत्तरप्रदेशे मदरसाशिक्षाव्यवस्थायां महत् परिवर्तनं भविष्यति। यूपी-सर्वकारेण उच्चस्तरीयसमितिः निर्माय मदरसा-पाठ्यक्रमस्य पुनर्गठनस्य आदेशः दत्तः अस्ति । पूर्वं मदरसाशिक्षाव्यवस्थायां आङ्ग्लभाषा, गणितं, विज्ञानम् इत्यादयः विषयाः वैकल्पिकाः आसन्, ये अधुना अनिवार्याः क्रियन्ते । आधुनिकशिक्षायाः अन्तर्गतं एते विषयाः अनिवार्याः भविष्यन्ति। एतेषां परिवर्तनानां सङ्गमेन मदरसाशिक्षायाः सुधारणाय, सुचारुरूपेण च कार्यान्वितुं सर्वकारेण उच्चस्तरीयसमित्याः निर्माणं कृतम् अस्ति । अल्पसंख्यककल्याणस्य निदेशकः अस्याः समितेः अध्यक्षः कृतः अस्ति । अल्पसंख्यक कल्याण एवं वक्फ विभागः, मूलभूत शिक्षा, माध्यमिक शिक्षा, वित्त एवं न्यायविभागस्य विशेषसचिवः अस्याः समितेः सदस्याः भविष्यन्ति।
उत्तरप्रदेशस्य मदरसेषु आङ्गलं गणितं च अनिवार्याः विषयाः भविष्यन्ति
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment