देहरादूननगर्यां शहीदस्मारके श्रद्धाञ्जलिसभायाः आयोजनम्, आतंकवादस्य तीव्रा निन्दा कृता अथ च वीरसैनिकानां सम्माननं विहिता
देहरादूनम् ( आचार्यधीरजमैठाणी) देहरादूननगरे स्थिते शहीदस्मारके, कचहरीपरिसरे, उत्तराखण्डविद्वत्सभाया: सहभागितया विभिन्नसंस्थाभिश्च सहकार्येण श्रद्धाञ्जलिसभा समारब्धा। अस्मिन् भावपूर्णे आयोजने राज्यआन्दोलनकारिमञ्चः, उत्तराखण्डविद्वत्सभा, राज्यआन्दोलनकारीमहिलामञ्चः, सर्वाणि प्रमुखराजनीतिकदलानि, क्षेत्रीयसंस्थाः च प्रतिनिधिमण्डलरूपेण सन्निहिताः।
अस्मिन्सम्मेलने देशस्य विभिन्नप्रदेशेषु—विशेषतः पहलगामे (काश्मीरे), उत्तराखण्डस्य चारधामयात्रायाम्, अन्येषु च आपत्सु वीरगतिकां प्राप्तानां तीर्थयात्रिणां नागरिकाणां च दिवङ्गतात्मभ्यः श्रद्धाञ्जलिः समर्पितः। अस्मिन्नेव अवसरे अन्ते सर्वाभिः संस्थाभिः सद्यस्क- आतङ्कवादिहिंसाया: कटुभिः शब्दैः निन्दा कृता, च केन्द्रसर्वकारेण भारतीयसेनया च पाकिस्तानदेशाय कृतस्य शक्तिशालिनः प्रत्युत्तरस्य कृते आभारः अपि व्यक्तः।
कार्यक्रमस्य गौरवं वर्धयन्तः उत्तराखण्डविद्वत्सभायाः अध्यक्षः श्रीविजेन्द्रप्रसादममगाईं, महासचिवः श्रीदिनेशप्रसादभट्टः अथ चान्येषु श्रीविवेकानन्दखण्डूरी, श्रीअशोकवर्मा, प्रख्यातः वक्ता श्रीसुभाषजोशी, श्रीप्रवीणत्यागी, आचार्यः ललितप्रसादसेमवालः, आचार्यः रवीन्द्रडंगवालः, वरिष्ठपत्रकारः श्रीमंगेशजी च स्वविचारान् प्रस्तुतवन्तः।
राज्यआन्दोलनकारिमञ्चस्य श्रीजगमोहननेगीनाम्नः नेतुः, राज्यआन्दोलनकारीमहिलामञ्चस्य मातृशक्तेः च सक्रियसन्निधानेन कार्यक्रमाय विशेषः संबलः प्राप्तः। उत्तराखण्डविद्वत्सभया वैदिकयज्ञेन दिवङ्गतात्मनां कृते श्रद्धाञ्जलिः समर्पितः, राष्ट्रस्य ऐक्याय, अखण्डतायै, शान्तये च प्रार्थना कृता।
एतद् आयोजनं केवलं श्रद्धाञ्जलिरूपेण न आसीत्, अपि तु राष्ट्रे एकताया: बोधः, सुरक्षा-सैन्यबलानां प्रति श्रद्धायाः च सजीवदर्शनीकृतिरूपेणापि जातः।