नीत्यायोगस्य उपवेशने प्रधानमन्त्रिणा पर्यटनविषये ध्यानकेन्द्रितं कृतम्
हिमसंस्कृतवार्ता: – प्रधानमन्त्री नरेन्द्रमोदी प्रत्येकं राज्यम् आग्रहं अकरोत् यत् वैश्विकमानकानामनुरूपं न्यूनातिन्यूनम् एकं पर्यटनस्थलं विकसिताय, सर्वाणि आवश्यकानि सौविध्यानि, आधारभूतसंरचनाः च प्रदद्यात्। नवदेहल्यां नीत्यायोगस्य दशमस्य शासकपरिषदः उपवेशनस्य अध्यक्षतां कुर्वन् प्रधानमन्त्री नरेन्द्रमोदी पर्यटनं वर्धयितुं समीपस्थनगराणां विकासाय च “एकं राज्यं, एकं वैश्विकं गन्तव्यं” इति उपक्रमे बलं दत्तवान्। द्रुतगत्या नगरीकरणं प्रकाशयन् सः विकासेन, नवाचारेण, स्थायित्वेन च प्रेरित-भविष्याय सज्जितानां नगरानां आह्वानं कृतवान् । प्रधानमन्त्रिणा मोदिना केन्द्र-राज्याभ्यां सहयोगेन द्रुततर-विकासस्योपरि बलं दत्तं यत् यदा प्रत्येकस्य राज्यस्य विकासः भवति तदैव भारतमपि विकसितं भविष्यति। सः सम्मानपूर्णैः विधिनां नीतिनां च महिलानां कार्यबले अधिकाधिकं समावेशस्यापि आग्रहं कृतवान्। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः, आन्ध्रप्रदेशस्य मुख्यमन्त्री चन्द्रबाबू नायडु, हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्दरसिंह सुक्खू, मध्यप्रदेशस्य मुख्यमन्त्री मोहनयादवः, छत्तीसगढस्य मुख्यमन्त्री विष्णुदेव साई इत्यादयः सभायां भागं गृह्णन्ति। केन्द्रशसितप्रदेशाणां उपराज्यपालाः, केन्द्रीयमन्त्रिणः, नित्यायोगस्य उपाध्यक्षः, सदस्याः, मुख्यकार्यकारी चापि अस्मिन् सत्रे उपस्थिताः आसन्। अस्मिन् वर्षे शासकपरिषदः उपवेशनस्य विषयः अस्ति सप्तचत्वारिंशदधिक द्विसहस्रतमवर्ष पर्यन्तं विकसितभारताय विकसितराज्यम् इति। कार्यसूचनायाः प्रमुखविषयेषु उद्यमशीलतायाः प्रवर्धनं, कौशलसम्वर्धनं, स्थायि वृत्यावसराणां जननं च अन्तर्भवति । एषः उपक्रमः राज्येभ्यः आग्रहं करोति यत् ते राष्ट्रियलक्ष्यैः समयबद्धलक्ष्यैः च सह सङ्गतं साहसिकं, समावेशी, दीर्घकालिकदृष्ट्याः प्रतिवेदनानां रूपरेखायाः निर्माणं कुर्वन्तु।
नीत्यायोगस्य उपवेशने प्रधानमन्त्रिणा पर्यटनविषये ध्यानकेन्द्रितं कृतम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
