संस्कृतभाषाशिक्षणे चत्वारि कौशलानि आवश्यकानि भवन्ति-डॉ.अमनदीपशर्मा
हिमसंस्कृतवार्ताः सत्यममिश्रः लखनऊ। ऑनलाइनपाठ्यक्रमनिर्माणयोजनान्तर्गतं उत्तरप्रदेशसंस्कृत संस्थानेन बौद्धिकसत्रम् आयोजितम्। प्रेरणाप्रदानाय हिमसंस्कृतवार्ताया: संस्थापक: डा.अमनदीपशर्मा मुख्यातिथित्वेन उपस्थितः जातः।। तेन स्वकीये उद्बोधने उक्तं यत् संस्कृतं किमर्थम् आवश्यकम्? किञ्च भाषाशिक्षणस्य कानि सोपानानि सन्ति? अस्मिन् विषये उद्बोधयन् सः उक्तवान् यत् श्रवणं, भाषणं, पठनं , लेखनम् च संस्कृतभाषाशिक्षणस्य चत्वारि सोपानानि सन्ति। उत्तरप्रदेशसंस्कृतसंस्थानस्य प्रयासानां प्रशंसाम् अकुर्वन् तेनोक्तं यत् संस्थानं न केवलं उत्तरप्रदेशे अपितु समग्रविश्वे अन्तर्जालमाध्यमेन कार्यं कुर्वन्नस्ति एषः गौरवस्य विषय:। इदानीं संस्कृतस्य ब्राण्ड एम्बेसडर इति भवितुं दिशायाम् अग्रसरः अस्ति उत्तरप्रदेशस्य संस्कृतसंस्थानम्। तेन प्रतिपादितं यत् वैदिककालादारभ्य लौकिकसाहित्यपर्यन्तं सर्वत्र वर्तमानस्य उत्तरप्रदेशस्य स्थानानां महद्वर्णनं प्राप्यते। नैमिष्यारण्य, अयोध्या, काशी सदृशानां सांस्कृतिकपरिप्रेक्ष्येण अस्माकं संस्कृतसंस्कृतिस्तथा सदैव प्रगतौ आसीत्। तेनोक्तं यत् उत्तरप्रदेशः निश्चितरूपेण उत्तमप्रदेशत्वेन अग्रे वर्धमानः अस्ति। संस्कृतभाषणात् गौरवभावना वर्धते, यतोहि संस्कृतं “नैव क्लीष्टा न च कठिना”। यावद् एकोऽपि जनः तां वदति तावत् मृतभाषा वक्तुं न शक्यते। सम्प्रति सहस्रशः जनाः संस्कृतं वदन्ति, अतः मृतशब्दः तदर्थं न प्रयोक्तव्यः । अनेकाः संस्थाः संस्कृताय समर्पिताः सन्ति, तेषु उत्तरप्रदेशसंस्कृतसंस्थानस्य विशेषं योगदानम् अस्ति । संस्कृतं कस्यापि एकस्य वर्गस्य भाषा नास्ति, सर्वेषां भाषाणां जननी संस्कृतमेव ।संस्कृतभाषायां संस्कृतस्य पाठनं भवतु इति सर्वैः प्रयत्नः करणीयः। तेनोक्तं यत् संस्कृतं श्रवणेन आगच्छन्ति, अतः ये चमूकृष्णशास्त्री सदृशाः उत्तमाः वाचकाः सन्ति, तेषां भाषणानि श्रोतव्यानि भवेयुः। श्रवणानन्तरं तस्य वाचनाभ्यासः भवेत्। पठनकौशले विशेषबलं दत्वा डॉ.अमनदीपशर्मणा उक्तं यत् इदानीं प्रतिवर्षं भारते विश्वे च सहस्रशः ग्रन्थाः संस्कृतमाध्यमेन प्रकाशिता भवन्ति, संस्कृतवार्तापत्रिकाः प्रकाशिता भवन्ति, परन्तु जनाः पठनाभ्यासं कुर्वन्ति? एतत् अस्माभिः विचारणीयम्, यतोहि भाषाशिक्षणस्य कौशलविकासे उत्तमपाठकस्यापि आवश्यता। तत्रैव लेखनकौशलसंवर्धनार्थं संस्कृतवार्तापत्रिकासु लेखनस्य अभ्यासः कर्तव्यः। संस्कृतस्य मुख्योद्देश्यं राष्ट्रैक्यस्थापनम् । केवलं राजनीतिप्रेरितः व्यक्तिः एव संस्कृतस्य विरोधं करोति । कार्यक्रमस्य प्रारम्भे मंगलाचरणं रौनक मिश्रा शुभाशर्मा च अकुरुताम्। संस्थानगीतिका आनंदकुमारी, अतिथिस्वागतगीतं शामिनी महोदया कृतम्। चैतन्यशर्मा, धैर्य शील: इत्यनयो:ऑनलाइन पठित्वा स्वस्य अनुभवस्य विषये उक्तवन्तौ। अतिथिस्य स्वागतं परिचयं च प्रशिक्षक: सत्यप्रकाशमिश्र: कारितवान् । ऑनलाइन नियंत्रणं कार्यक्रमस्य प्रशिक्षक: राजनदूबे, सत्रसंचालनं प्रशिक्षक: लल्लनबाबू एवं समागतानां अतिथिमहोदयानां धन्यवादज्ञापनं प्रशिक्षक:जीवनप्रकाश: अकरोत् । प्रेरणासत्रसंयोजनं प्रशिक्षकः सत्यम मिश्रः अकरोत् । कार्यक्रमे संस्थानपक्षत: निदेशक: विनयश्रीवास्तव:, सचिव: जितेन्द्र कुमार:, प्रशिक्षण प्रमुख: सुधिष्ठमिश्र:, योजना- प्रमुख: भगवानसिंह:, आनलाईन पाठ्यक्रम निर्माणयोजनाया: संयोजका: धीरज मैठाणी, दिव्यारंजन:, राधा शर्मा उपस्थिता:। कार्यक्रमस्य अन्ते प्रशिक्षुणा समता इत्यस्य शान्तिमन्त्रस्य पाठः कृता।
संस्कृतभाषाशिक्षणे चत्वारि कौशलानि आवश्यकानि भवन्ति-डॉ.अमनदीपशर्मा
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
