अमृतभारतम्-: देशस्य १३०० तः अधिकानि रेलस्थानकानि विकसितानि भविष्यन्ति
भोपाल। बीकानेरनगरे सभां सम्बोधयन् प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् विकसितभारतस्य संकल्पः सुदृढः भवति। देशे सर्वत्र महत् विकासाभियानं प्रचलति; अस्माकं मार्गाणां रेलमार्गजालानां च विकासाय विगत ११ वर्षेषु अपूर्वं कार्यं कृतम् अस्ति। देशः पूर्वापेक्षया विकासकार्य्ये ६ गुणाधिकं धनं व्यययति। भारते विकासकार्यं दृष्ट्वा विश्वं आश्चर्यचकितं भवति। आधिकारिकसूचनानुसारं पीएम मोदी राजस्थानस्य बीकानेरनगरे आयोजितकार्यक्रमात् देशस्य १०३ अमृतस्थानकानां वर्चुअल् उद्घाटनकार्यक्रमं सम्बोधयन् आसीत्। मुख्यमन्त्री डा. मोहन यादवः नर्मदापुरम रेलस्थानकम् आगत्य उद्घाटनसमारोहे भागं गृहीतवान्। कार्यक्रमस्य अन्तर्गतं राज्यस्य नर्मदापुरम, कटनी, ओरछा, सिवनी, शाजापुर, श्रीधाम अमृतस्थानकानाम् उद्धाटनं जातम्।
सर्वेषु रेलस्थानकानि अत्याधुनिकसौविध्येन सुसज्जितानि भविष्यन्ति। एतेषु रेलस्थानकेषु भारतीयसंस्कृतेः धरोहरं, यात्रिकसुविधाः च समाविष्टाः सन्ति । बीकानेरे आयोजिते कार्यक्रमे राजस्थानस्य मुख्यमंत्री भजनलाल शर्मा, रेलमंत्री अश्विनी वैष्णवः, केन्द्रीय विधि एवं न्याय मंत्री अर्जुनराममेघवालः उपस्थितः आसीत्। उल्लेखनीयं यत् अमृतभारतस्थानकयोजनायाः अन्तर्गतं भारतस्य १८ राज्यानां केन्द्रशासितप्रदेशानां च ८६ जनपदेषु स्थितानि १०३ अमृतस्थानकानि ११०० कोटिरूप्यकाणां व्ययेन विकसितानि सन्ति। भारतं स्वस्य रेलजालस्य आधुनिकीकरणं कुर्वन् अस्ति इति प्रधानमन्त्री मोदी अवदत्। वन्दे भारत, अमृतरेल, नमो रेलयानानि च भारतस्य नूतनगतिम् प्रतिबिम्बयन्ति। देशे ७० मार्गेषु वन्देभारतरेलयानानि प्रचलन्ति । ३४ सहस्रकिलोमीटर् अधिकाः नूतनाः रेलमार्गाः स्थापिताः सन्ति । विस्तृतमापकपट्टिकासु मानवरहिताः पारगमनाः अधुना इतिहासः एव । देशस्य प्रथमायाः बुलेट्-रेल-परियोजनायाः कार्यं प्रचलति । वयं १३०० तः अधिकानां स्थानकानाम् आधुनिकीकरणं कुर्मः। एतेषां नाम अमृतभारतस्थानकम् इति कृतम् अस्ति, येषु १०३ रेलस्थानकानि सम्पन्नानि सन्ति
अमृतभारतम्-: देशस्य १३०० तः अधिकानि रेलस्थानकानि विकसितानि भविष्यन्ति
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
