वार्ता:
1.कैप्टनविक्रमबत्रा महाविद्यालये षट्कोटिरूप्यकै: भविष्यति छात्रावासस्य निर्माणम् इति शिक्षामन्त्रीरोहितठाकुर: उक्तवान्।
2.रविवासरात् हिमाचलप्रदेशे वातावरणपरिवर्तनम् अभवत्। अद्य अनेकेषु क्षेत्रेषु ओलावृष्टे: नारङ्गवर्णीयसचेतना प्रसारिता अस्ति। पश्चिमीविक्षोभस्य सक्रियताया: कारणाद् राज्ये वातवरणपरिवर्तनस्य पूर्वानुमानं अस्ति ।
3.लारजी-जलविद्युत्परियोजना पूर्णतया पुनर्स्थापिता, २०२३(द्वाविंशत्याधिकद्विसहस्र) तमे वर्षे जलप्रलयेन क्षतिग्रस्ता अभवत्।
4.हिमाचलस्य काङ्गड़ामण्डलस्य एकस्मिन् ग्रामे एकः पितामहः पौत्रद्वयं च जले निमग्नेन मृता: