राष्ट्रीयवार्ताः-ज्ञानपीठपुरस्कारम्- जगद्गुरु-रामभद्राचार्यः, प्रख्यातः उर्दू कविः गीतकारः गुलजारः च अस्य प्रतिष्ठितपुरस्काराय चितौ
हिमसंस्कृतवार्ता: – राष्ट्रपतिः द्रौपदीमुर्मूः संस्कृत-विदुषे जगद्गुरु-रामभद्राचार्याय त्रयोविंशत्यधिक-द्वि-सहस्र-तम-वर्षस्य कृते नवदेहल्याम् अष्टपञ्चाशत्तमं ज्ञानपीठपुरस्कारं प्रदत्तवती। जगद्गुरु-रामभद्राचार्यः प्रख्यातः उर्दू कविः गीतकारः गुलजारः च अस्य प्रतिष्ठितपुरस्काराय चितौ स्तः। साहित्यक्षेत्रे उत्कृष्टयोगदानाय प्रख्यात-जनाः अस्मिन् पुरस्कारेण सम्मानिताः सन्ति। अस्मिन् अवसरे प्रवदन् राष्ट्रपतिः उभयोः अभिनन्दनं कृतवती ।
भारतेन अन्ताराष्ट्रिय-मुद्राकोषाय उक्तं यत् सः पाकिस्तानाय दीयमानायाः वित्तीय-सहायतायाः विषये पुनर्विचारं कुर्यात्
हिमसंस्कृतवार्ता: – भारतेन उक्तं यत् अन्ताराष्ट्रिय-मुद्राकोषेन पाकिस्तानाय दीयमानायाः वित्तीय-सहायतायाः विषये पुनर्विचारः करणीयः। गुजरातस्य भुज-स्थले वायुसेना-स्थानके सैनिकान् सम्बोधयन् रक्षा-मन्त्री राजनाथ सिंहः अवोचत् यत् अस्याः वित्तीय सहायतायाः बृहत्-भागः पाकिस्तानेन आतङ्कवादस्य संरचनायां प्रयोक्ष्यते। अधुना पाकिस्तानाय कीदृशी अपि आर्थिक-सहायता प्रदानस्य अर्थः आतङ्कवादि-गतिविधिभ्यः धनोपलब्धता वर्तते। रक्षामन्त्री राजनाथसिंहः सिन्दूराभियाने भारतीय वायुसेनायाः त्वरित-निर्णायक-कार्याचरणस्य प्रशंसा-कुर्वन् अवदत् यत् अनेन देश-विदेशे च समेपि भारतीयाः गौरवान्विताः। वायुसेनायै पाकिस्ताने स्थितातङ्ङ्क-संरचनायाः समाप्तये केवलं त्रयोविंशतिः निमेषाः एव पर्याप्ताः आसन्। रक्षामन्त्री अवोचत् यत् अनेन अभियानेन आतङ्कवादं विरूध्य कठोर-सन्देशः प्रदत्तः अथ च भारतस्य सैन्य-शक्तिः सन्नद्धता च प्रदर्शिता। अपि च सिन्दूराभियाने भारतीय-सेनया न केवलं शत्रुषु स्वस्य वर्चस्वं स्थापितम् अपितु शत्रूणां नाशः अपि विहितः।
देशस्य शीर्ष-प्रमुख-वाणिज्य-समवायाः तुर्की-अजरबैजान-देशयोः सह यात्रा-पर्यटनं च समेत्य सर्वविधव्यापार-बहिष्कारस्य निर्णयं कृतवन्तः।
हिमसंस्कृतवार्ता: – देशस्य पञ्चविंशत्यधिकैक-शततोप्यधिकाः शीर्ष-प्रमुखा: वाणिज्य-नेतारः तुर्की-अजरबैजान-देशयोः सह यात्रां पर्यटनं च समेत्य सर्वविधव्यापार-बहिष्कारस्य निर्णयं कृतवन्तः। नवदेहल्याम् अखिल-भारतीय-व्यापार-परिसङ्घेन आहूते राष्ट्रिय-व्यापारनेतृ-सम्मेलने एषः निर्णयः स्वीकृतः। एकस्मिन् वक्तव्ये सी.ए.आई.टी इत्यनेन उक्तं यत्, यदा भारतं संवेदनशीलं गम्भीरं च राष्ट्रिय-सुरक्षास्थितिं सम्मुखीकरोति स्म तस्मिन् समये तुर्की-अजरबैजान देशाभ्यां पाकिस्तानस्य पूर्णसमर्थनं कृतम्। सद्यः एव कृतस्य वृत्तेः प्रतिक्रियारूपेण एषः संकल्पः स्वीकृतः। तत्र उक्तं यत्, भारतीय-व्यापार-समुदायः एतत् विश्वासघातरूपेण पश्यति, विशेषतः पूर्व संकटस्थितौ भारतेन द्वयोः देशयोः कृते मानवीयं कूटनीतिकं च समर्थनं प्रदत्तम्। सभां सम्बोधयन् C.A.I.T इत्यस्य महासचिवः संसद सदस्यः च प्रवीणखण्डेलवालः अवदत् यत् दुर्भाग्यं यत् भारतस्य सद्भावनायाः, सहायतायाः, सामरिक-समर्थनस्य च लाभं प्राप्तवन्तौ तुर्की-अजरबैजान-देशौ अधुना पाकिस्तानस्य साहाय्यं कृतवन्तौ । सः अवदत् यत् तयोः स्थितिः न केवलं भारतस्य सार्वभौमत्वं राष्ट्रहितं च आहतं करोति अपितु चत्वारिंशदधिकैक-शतकोटि-भारतीयानां भावनानां प्रत्यक्षतया अपमानं करोति ।
निर्वाचनायुक्तः डॉ. विवेक-जोशी आगामि-बिहार-विधानसभा निर्वाचनानां सज्जतां समीक्षितुं बिहारे गतवान्
हिमसंस्कृतवार्ता: – निर्वाचनायुक्तः डॉक्टर विवेक-जोशी आगामि-बिहार-विधानसभा निर्वाचनानां सज्जतां समीक्षितुं चतुर्दिवसीय बिहारयात्रायां प्रतिष्ठितः। निज यात्रावधौ असौ व्यवस्थां मतदातृभ्यः सौविध्यान् सुरक्षा स्थितिं च ज्ञास्यति। सममेव असौ ई.वी.एम. यन्त्राणां प्रथमस्तरीय-निरीक्षणम् अपि अवलोकयिष्यति।
सिक्किमराज्यदिवसे शुभकामनाः प्रदत्तवन्तौ राष्ट्रपतिः प्रधानमन्त्री च
हिमसंस्कृतवार्ता: – सिक्किम-स्थापना दिवसे राष्ट्रपतिः द्रौपदी मुर्मुः प्रधानमन्त्री नरेन्द्र मोदी च सिक्किमस्य जनान् तेषां राज्य-दिवसावसरे शुभकामनाः प्रदत्तवन्तौ। सामाजिक सञ्चार-पटले राष्ट्रपतिना मुर्मुवर्यया उक्तं यत् सिक्किमः स्वस्य असीम-प्राकृतिक सुन्दरतायै समृद्ध-सांस्कृतिक-रिक्थाय जनानाम् उत्साहाय च व्यापक-रूपेण प्रशंसितो वर्तते। राष्ट्रपतिनोक्तं यत् राज्येन भारतस्य सर्वाधिक पर्यावरणं प्रति जागरूक-राज्यरूपेण प्रकृत्या सह सामंजस्यपूर्ण सह-अस्तित्वं प्रदर्शयिता सतत विकासस्य उल्लेखनीयोदाहरणानि स्थापितानि। प्रधाननमन्त्री नरेन्द्रमोदी अवोचत् यत् सिक्किमः शांत-सुंदरता-समृद्ध सांस्कृतिक-परम्पराणाम् अथ परिश्रमी जनैः सम्बद्धः अस्ति। सामाजिक संचार-पटले श्रीमोदी अवोचत् यत् राज्येन विविधक्षेत्रेषु प्रगतिः कृता। तेन इदमपि उक्तं यत् अयम् अवसरः इतोऽपि विशिष्टः अस्ति यतोहि सिक्किमस्य स्थापनायाः पञ्चाशत्-तमः वर्षः अस्ति। प्रधानमन्त्रिणा राज्यस्य नागरिकाणां समृद्धेः कामना कृता ।
समेकित-गुप्तसूचनाप्रसारयितुं नूतनस्य बहुविभागीयकेन्द्रस्य उद्घाटनम् अकरोत् गृहमन्त्री अमितशाह:
हिमसंस्कृतवार्ता: – केन्द्रीय-गृहमन्त्री अमितशाहः उक्तवान् यत् सिन्दूराभियानं प्रधानमन्त्रिणः नरेन्द्रमोदिनः दृढ-राजनितिकेच्छायाः, गुप्तचर विभागानां समीचीनसूचनायाः, अस्माकं त्रयाणां सैन्यबलानाम् अचूक-प्रहारक्षमतायाः च अद्वितीयं प्रतीकम् अस्ति। ध्यातव्यं वर्त्तते यत् राजधान्यां नवदेहल्यां समेकित-गुप्तसूचनाप्रसारयितुं नूतनस्य बहुविभागीयकेन्द्रस्य उद्घाटनानन्तरम् एतत् अवदत् गृहमन्त्री।
सिन्दूर-कार्यक्रमः सर्वकारस्य दृढराजनैतिकइच्छायाः, त्रयाणां सेनानां अचूक-अग्निशक्तेः च अद्वितीयं प्रतीकम्-अमितशाहः
केन्द्रीयगृहमन्त्री अमितशाहः उक्तवान् यत् सिन्दूर-कार्यक्रमः सर्वकारस्य दृढराजनैतिकइच्छायाः, त्रयाणां सेनानां अचूक-अग्निशक्तेः च अद्वितीयं प्रतीकम् अस्ति। अत्र उत्तरखण्डे नूतनस्य बहु एजेन्सीकेन्द्रस्य उद्घाटनं कुर्वन् शुक्रवासरे शाहमहोदयेन एतत् उक्तम्। गृहमन्त्री ऑपरेशन सिन्दूरस्य कृते सशस्त्रसेनानां प्रशंसाम् अकरोत् तथा च उक्तवान् यत् एतत् अभियानं सर्वकारस्य राजनैतिकइच्छायाः, गुप्तचरसंस्थानां समीचीनसूचनायाः, त्रयाणां बलानां अचूकप्रहारशक्तेः च अद्वितीयं प्रतीकम् अस्ति। बहु एजेन्सी केन्द्रं देशे आन्तरिकसुरक्षां सुदृढं कर्तुं महत्त्वपूर्णं सोपानं मन्यते। अस्मिन् केन्द्रे देशे सर्वत्र गुप्तचरब्यूरो, शोधविश्लेषणविभागः, पुलिसगुप्तचरविभागः, अर्धसैनिकबलानाम् गुप्तचर-एककाः च परस्परं समन्वयेन कार्यं करिष्यन्ति। उल्लेखनीयं यत् भारतीयसशस्त्रसेनाभिः मेमासस्य ६ दिनाङ्के रात्रौ सिन्दूर-कार्यक्रमः आरब्धः आसीत्, पाकिस्ताने पाकिस्तान-कब्जित-कश्मीरे च नव आतङ्कवादीनां निगूढस्थानानि नष्टानि आसन् अस्मिन् कार्ये १०० तः अधिकाः पाकिस्तानी आतङ्कवादिनः मारिताः ।