राजकुमारराव-वामिका गब्बी-योः ‘भूल चूक माफ’ चलच्चित्रम् अधुना अस्मिन् दिने प्रेक्षागृहेषु प्रदर्शितं भविष्यति न तु ओटीटी-मध्ये
वार्ताहर: – जगदीश डाभी, मुम्बई
प्राप्तवार्तानुसारं राजकुमारराव-वामिका गब्बी-यो: चलच्चित्रं ‘भूल चूक माफ’ मई मासस्य ९-दिनाङ्के प्रेक्षागृहेषु प्रदर्शितुं निश्चितम् आसीत् किन्तु ऑपरेशन सिन्दूर् इत्यस्य अनन्तरं मैडॉक् फिल्म्स् इति चलच्चित्रस्य निर्मातारः प्रत्यक्षतया ओटीटी इत्यत्र प्रदर्शितुं निश्चयं कृतवन्तः। एतत् चलच्चित्रं मई मासस्य १६-दिनाङ्के ओटीटी इत्यत्र प्रदर्शितं भवितुम् आसीत् । परन्तु अधुना एतत् चलच्चित्रं प्रेक्षागृहेषु प्रदर्शितं भविष्यति न तु ओटीटी इत्यत्र। वस्तुतः पीवीआर इनोक्सः मैडॉक् फिल्म्स् इत्यस्य निर्णयस्य विरुद्धं न्यायालयं गतः आसीत् । अधुना च एषः विषयः निराकृतः अस्ति। अधुना एतत् चलच्चित्रं केवलं प्रेक्षागृहेषु प्रदर्शितं भविष्यति। प्राप्तवार्तानुसारम् अधुना एतत् चलच्चित्रं मई मासस्य २३-दिनाङ्के प्रेक्षागृहेषु प्रदर्शितं भविष्यति । ओटीटी-विमोचनस्य विषये अपि महती वार्ता आगता अस्ति । चलच्चित्रं प्रेक्षागृहे प्रदर्शितस्य ८ सप्ताहानन्तरम् ओटीटी इत्यत्र अपि प्रदर्शितं भवति । परन्तु राजकुमाररावस्य वामिकायाः च ‘भूल चूक माफ’ इत्यस्य प्रेक्षागृहे प्रदर्शितस्य केवलं २ सप्ताहाभ्यन्तरे एव ओटीटी इत्यत्र प्रदर्शितं भविष्यति। इति मई मासस्य २३-दिनाङ्के प्रेक्षागृहेषु, जूनमासस्य ६-दिनाङ्के च ओटीटी इत्यत्र प्रदर्शितं भविष्यति ।