HP Scholarship Scam – छात्रवृत्तिभ्रष्टाचारे केन्द्रीयान्वेषणदलेन षट् नवीनानि एफआईआर-पत्राणि पञ्जीकृतानि
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशस्य १८१ कोटिरूप्यकाणां छात्रवृत्तिभ्रष्टाचारे विस्तृतं आरोपपत्रं प्रविश्य अधुना केन्द्रीयान्वेषणदलेन अस्मिन् प्रकरणे षट् नवीनानि एफआइआर-पत्राणि पञ्जीकृतानि सन्ति । सीबीआई भ्रष्टाचारनिवारणविधानस्य विभिन्नप्रावधानानाम् अन्तर्गतं अज्ञातसर्वकारीयाधिकारिणां अन्येषां च आरोपिणां विरुद्धं छात्रवृत्तिभ्रष्टाचारे षट् नवीनानि प्राथमिकीपत्राणि पञ्जीकृतानि सन्ति।एतानि प्राथमिकीपत्राणि शिमलानगरस्य सीबीआईक्षेत्रीयमुख्यालये पञ्जीकृतानि सन्ति।
एतेन सह सीबीआइ-सङ्घस्य षट्-दलानि षट्-स्थानानि आक्रमितवन्तः । सीबीआई-दलैः हिमाचलप्रदेशे द्वयोः स्थानयोः, पञ्जाबस्य त्रीणि स्थानानि, चण्डीगढस्य एकस्मिन् स्थाने च अन्वेषणं कृत्वा सम्पत्तिसम्बद्धै: अभिलेखै: सहितं अनेके आपत्तिजनकप्रपत्राणि गृहीतानि सन्ति।