पाकिस्ताने जैश-ए-मोहम्मद अथ च लश्कर-ए-तैयबा इत्यनयोः आतङ्कि-गुल्मयोः पञ्च कुख्याताः आतंकवादिनः व्यापादिताः
हिमसंस्कृतवार्ता: – भारतीयसशस्त्रबलैः पाकिस्तानेन कृत उत्तेजक कार्याचरणानां प्रत्युत्तरे तस्य प्रौद्योगिक्याधारभूत संरचनायां, नेतृत्व-नियंत्रण केन्द्रयोः, रडार यन्त्र-स्थलेषु, शस्त्रभण्डारेषु सैन्यलक्ष्येषु च सटीकप्रहारः कृतः। भारतेन भारतीययुद्धविमानैः वायुप्रक्षेपास्त्राणां उपयोगेन रफीकी, मुरिद, चकलाला, रहीमयार खान इत्यादिसु स्थलेषु लक्ष्यं कृतम् । नवदेहल्याम् ऑपरेशन सिन्दूर विषये वार्ताहर सम्मेलने विंग कमांडर व्योमिकासिंहः सशस्त्रसेनया कृतानां कार्याणां विवरणं प्रदत्तवती। सा सूचितवती यत् पाकिस्तानसैनिकाः अग्रिमक्षेत्राणि प्रति वर्धन्तः दृष्टाः। एतेषां अभिप्रायं स्पष्टं दृश्यते यत् पाकिस्तानं स्थितिं इतोपि गभीरं कर्तुम् इच्छति। सा प्रतिपादितवती यत् भारतीयसशस्त्रसेनाः परिचालनसज्जतायाः अवस्थायां सन्ति, सर्वेषां शत्रुकार्याणां प्रभावीरूपेण प्रतिकारः च कृतः । विङ्ग-कमाण्डर् व्योमिकासिंहः अवदत् यत् पाकिस्तानस्य कार्याचरणस्य प्रतिक्रियारूपेण भारतीयसशस्त्रसेनया केवलं चिह्नितेषु सैन्यलक्ष्येषु एव सटीकप्रहारः कृतः। सा अवदत् यत् पसुर-सियाल्कोट्-क्षेत्रयोः विमानस्थानकयोः च रडार-स्थलानि अपि लक्षितानि । विङ्गकमाण्डर् व्योमिकासिंहः सूचितवती यत् पाकिस्तानसेना ड्रोन् यन्त्राणि, दीर्घदूरपर्यन्तं प्रक्षेप्य-असत्राणि, योधि विमानानि च उपयुज्य पश्चिमसीमायां निरन्तरं आक्रमणं करोति। सा अवदत्, भारतेन प्रभावीरूपेण आक्रमणानि निष्प्रभावीकृतानि । विङ्ग कमांडर अवदत् यत् पाकिस्तानपक्षः श्रीनगरतः छलियापर्यन्तं षड्विंशत्यधिकेषु स्थानेषु वायुमार्गेण प्रविष्टुं प्रयतते स्म, तैः उधमपुर, भुज, पठानकोट्, बठिंडा इत्यत्र वायुसेनास्थानकेषु देशस्य उपकरणानां, कर्मचारिणां च क्षतिं कृतवन्तः। करनल कुरैशी इत्यनया उक्तं यत् पाकिस्तानेन पञ्जाबस्य वायुसेनास्थानकं लक्ष्यं कर्तुं उच्चगति प्रक्षेपास्त्राणां प्रयोगः कृतः तथा च ते श्रीनगर, अवन्तिपुर, उधमपुर इत्येतेषु स्वास्थ्य-सुविधासु विद्यालयेषु च आक्रमणं कृतवन्तः। सा अवदत्, भारतीयसशस्त्रसेना स्थितिम् अप्रवर्धनाय प्रतिबद्धा अस्ति, यद्यपि पाकिस्तानः प्रतिकारं न कुर्यात्। विङ्गकमाण्डर् व्योमिकासिंहः अपि पाकिस्तानस्य दुर्भावनापूर्णं मिथ्या सूचना-प्रसाराभियानम् अपि सूचितवती यत् ते भारतीय-एस-चतुःशतं-प्रणालीं नष्टं कृतवन्तः, सूरतगढ-सिरसा-नगरयोः विमानक्षेत्रौ चापि नष्टं कृतवन्तः । पाकिस्तानेन प्रसारितानि एतानि मिथ्या-भ्रामक साक्ष्याणि सा निर्विवादरूपेण अस्वीकृतवती । वार्ताहर सम्मेलनावधौ भारतेन पाकिस्तानस्य प्रचारस्य प्रतिकारार्थं स्वविमानस्थानकानि अक्षतिग्रस्तानि दर्शयन्तः समयमुद्रितचित्रमपि प्रकाशितम्। पाकिस्तानप्रशासनेन अभिमतं प्रकाशितम् यत् सिरसा-सूरतगढयोः च विमानस्थानकौ तेषां शस्त्रव्यवस्थायाः लक्ष्यं कृतम् । विदेशसचिवः विक्रममिस्त्री अवदत् यत्, पाकिस्तानस्य एव पदक्षेपेण उत्तेजनं, व्याप्तिः च अभवत् तथा च पाकिस्तानस्य कार्याणां प्रतिक्रियारूपेण भारतेन मापित-प्रतिक्रिया प्रदत्ता। विदेशसचिवः बोधितवान् यत् पाकिस्तानदेशः विशेषतया जम्मू-कश्मीर-पञ्जाब-राज्ययोः नागरिकान् नागरिकाधारभूतसंरचनान् लक्ष्यं कृत्वा निन्दनीयं अभियानं निरन्तरं प्रचालयति ।
पाकिस्ताने जैश-ए-मोहम्मद अथ च लश्कर-ए-तैयबा इत्यनयोः आतङ्कि-गुल्मयोः पञ्च कुख्याताः आतंकवादिनः व्यापादिताः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
