HPCM – जम्मू-कश्मीरे अध्ययनं कुर्वन्तः हिमाचल-छात्राः सुरक्षितरूपेण स्वगृहम् आनयिष्यन्ते
हिमसंस्कृतवार्ता: – शिमला।
उपमुख्यसचेतकः केवलसिंह पठानिया शुक्रवासरे मुख्यमन्त्रिणं सुखविन्दरसिंहसुक्खुं मिलित्वा जम्मू-कश्मीरे विशेषतः श्रीनगरे अध्ययनं कुर्वन्तः हिमाचली-छात्रान् सुरक्षितरूपेण पुनः आनेतुं आग्रहं कृतवान्। एतेषां छात्राणां मातापितरः स्वसन्ततिनां सुरक्षायाः चिन्ताम् अनुभवन्ति इति सः मुख्यमन्त्रीं अवदत्।
सः अवदत् यत् सम्प्रति जम्मू-कश्मीरे प्रायः १०३ छात्राः शिक्षां प्राप्नुवन्ति तथा च भारत-पाकिस्तानयोः मध्ये वर्धमानं विवादं दृष्ट्वा तेषां परिवाराः अत्यन्तं चिन्तिताः सन्ति, बालकानां सुरक्षितं पुनरागमनस्य आग्रहं च कुर्वन्ति। मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकाराय राज्यस्य छात्राणां सुरक्षा, कल्याणं च सर्वोपरि वर्तते। अस्मिन् दिशि राज्यसर्वकारः सर्वसम्भवं सर्वाणि पदानि ग्रहीष्यति इति आश्वासनं दत्तवान्। सः मुख्यसचिवं तत्कालं आवश्यकानि पदानि स्वीकृत्य जम्मू-कश्मीर-सर्वकारेण सह समन्वयं कृत्वा छात्राणां सुरक्षितं पुनरागमनं सुनिश्चितं कर्तुं निर्देशं दत्तवान्।