Himachal News – पञ्जाब-किङ्ग्स-दिल्ली-कैपिटल्स्-एते दले हिमाचलात् प्रस्थिताः, विशेष-रेलयानेन देहलीं प्रेषिताः
हिमसंस्कृतवार्ता: – धर्मशाला।
भारत-पाकिस्तानयोः मध्ये वर्धमानस्य द्वन्द्वस्य कारणेन गुरुवासरे रात्रौ आईपीएल-क्रीडा निरस्ता अभवत् । तदनन्तरं पञ्जाबकिङ्ग्स, दिल्ली- कैपिटल्स् इत्येतयोः क्रीडकाः शुक्रवासरे धर्मशालातः दिल्लीनगरं प्रत्यागतवन्तः। कठिनसुरक्षायाः मध्ये क्रीडकाः धर्मशालातः जालन्धरं यावत् मार्गेण नीताः। इतः ते विशेषयानेन देहलीन प्रेषिता: ।
पुलिसाधीक्षिका शालिनी अग्निहोत्री इत्यनया उक्तं यत् सुरक्षायाः कठोरव्यवस्था कृता, क्रीडकानां च समस्यां विना जालन्धरं प्रति परिवहनं कृतम्। जालन्धरतः ते विशेषरेलयानेन देहलीं प्रति प्रस्थितवन्त: । धर्मशालातः जालन्धरं यावत् क्रीडकानां सुरक्षितरूपेण परिवहनार्थं पुलिसैः अतिरिक्तबलानि नियोजितानि आसन्। अस्मिन् काले कस्यापि अप्रियघटनायाः परिहाराय कठोरनिरीक्षणं कृतम् ।
आईपीएल-क्रीडायाः अस्मिन् सत्रे प्रथमवारं सुरक्षाकारणात् मेलनं निरस्तं जातम् । सम्प्रति IPL अनिश्चितकालं यावत् स्थगितम् अस्ति, अग्रिमस्य मेलनस्य तिथिः अपि न निर्णीता ।