प्रमुखपञ्चवार्ता: 09/05/2025
1.हिमाचलप्रदेशे वर्धितो बसयानभाटकम्। परिवहनविभागेन प्रकाशिता अधिसूचना।
विपक्षनेत्रा जयरामठाकुरेण कथितं यद् बसयानभाटकं वर्धयित्वा सर्वकारेण जना: विपदि पातिता:।
2.विश्वरेडक्रॉस दिवसस्यावसरे रेडक्रॉसस्वयंसेवका: प्रदेशस्य मुख्यमन्त्रिणा सह अमिलन्। अवसरेऽस्मिन् ते मुख्यमन्त्रिणे रेडक्रॉसस्टिकर इत्यपि समर्पितवन्त:।
हमीरपुरस्य राजकीयोच्चविद्यालये कोटलाकल्लरे विश्वरेडक्रॉस दिवसस्यावसरे विविधगतिविधय: आयोजिता:।
3.हिमाचलेन प्राप्ता: प्रतिष्ठित- अधोसंरचनापुरस्कारा:। मुख्यमन्त्रिणा सुखविंदरसिंहसुक्खुना दत्ता: शुभकामना:। मोरक्को देशस्य माराकेचनगरे प्रतिष्ठितआधारभूतसंरचना पुरस्कार: गैरीलिडलस्मृति: स्मृतिचिह्ने “शाइनिंगस्टार” इत्यनेन सम्मानित: हिमाचल प्रदेश:।
4.IPL 2025- पाकिस्तानेन सह द्वन्द्वस्य क्रिकेटक्रीडायां किमपि प्रभावो न अभवत्, पञ्जाब- हरियाणा- सहितेभ्य: अन्येभ्यः राज्येभ्यः प्रेक्षकाः आगता:।
5.पाकिस्तानेन सह प्रचलतस्य द्वन्द्वस्य मध्ये गुरुवासरे धर्मशालायां आईपीएल- क्रीडायाः उन्मादः न्यूनः न अभवत्। पञ्जाब- दिल्ली- दलयोः प्रतिस्पर्धार्थं पञ्जाब- हरियाणा- चण्डीगढ- जम्मूकश्मीरसहितानाम् अन्यराज्यानां प्रेक्षकाः धर्मशालानगरं प्राप्तवन्तः। समीपस्थदेशेन सह विवादं विमानप्रहारं च दृष्ट्वा हिमाचलपुलिससहिताः केन्द्रीयराज्यसुरक्षासंस्थाः सजगाः एव आसन्।