‘आपरेशन्-सिन्दूर’ अभियानेन नव आतङ्ककेन्द्राणि पूर्णतया नष्टानि अभवन्-कर्नल्-सोफिया-कुरेशी
हिमसंस्कृतवार्ता:-नवदेहली । पहलगाम्-नगरे भयोत्पादकस्य आतङ्क्याक्रमणस्य सप्ताहद्वयानन्तरं, भारतीय-सशस्त्र सेना पाकिस्तानाधिकृतस्य जम्मू-कश्मीरस्य च नव-आतङ्ककेन्द्राणां विरुद्धं प्रक्षेपास्त्रप्रहारं कृतवान् । प्रातः पञ्चाधिक-एकवादनतः समारभ्य सार्धेकवादनपर्यन्तं ‘आपरेशन्-सिन्दूर’ इत्यस्य अन्तर्गतं सशस्त्र-कार्याचरणम् एतत् विहितम् अस्ति । भारतीय-सशस्त्र-सेना पाकिस्तान-देशे, पाकिस्तानाधिकृत-जम्मू-कश्मीर-प्रदेशे च आतङ्किसंरचनायाः उपरि आक्रमणं अकरोत्, यत्र ते भारतस्य विरुद्धं आतङ्क्याक्रमणानां योजनाम् अकुर्वन्, निर्देशं च प्रायच्छन्। आपरेशन्-सिन्दूर इत्यस्य विषये प्रसारमाध्यमान् संसूचयन् विदेश-सचिवः विक्रम-मिस्री अवदत् यत् पहलगाम्-नगरे आतङ्क्याक्रमणस्य अन्वेषणेन आतङ्किभिः सह पाकिस्तानस्य सम्बन्धाः उद्घारिताः सन्ति । अभियानस्य विवरणं दत्त्वा भारतीयसेनायाः कर्नल्-सोफिया-कुरेशी अवदत् यत् अनेन अभियानेन नव आतङ्कि-केन्द्राणि पूर्णतया नष्टानि अभवन् । सा पाकिस्तानदेशे नष्टानां आतङ्किशिबिराणां विषये अपि विवरणं दत्तवती। एतदतिरिक्तं भारतीय वायुसेनायाः सेनानायिका व्योमिका-सिहः संसूचितवती यत् आपरेशन् सिन्दूर इति पहलगाम्-नगरे आतङ्कि-आक्रमणस्य पीडितानां न्यायार्थं प्रारब्धम् ।
भारतीयसेनया स्वीयसाहसिकप्रदर्शनेन इतिहासः विरचितः
रक्षामन्त्री राजनाथसिंहः प्रोक्तवान् यत् भारतीयसेनया सिन्दूराभियानस्य अन्तर्गतं स्वीयसाहसिकप्रदर्शनेन इतिहासः विरचितः अस्ति । सः अवदत् यत् सशस्त्रसेना अभियानस्य समये यथार्थतया, जागरूकतया, संवेदनशीलतया च कार्यम् अकरोत्, नियोजित-कार्यनीत्यानुसारं स्थापितं लक्ष्यं च नष्टीकृतवान्। नवदिल्ल्यां ष राज्याणां, द्वयोः केन्द्रशासित प्रदेशयोः च सीमा-मार्ग-सङ्घ स्य पञ्चाशत्-मूलसंरचना-परियोजनानां उद्घा जावसरे सम्बोधयन् सिंह-वर्यः एतत् वक्तव्यम् अयच्छत् ।
प्रधानमन्त्रिणा राष्ट्रपतिं सिन्दूराभियानस्य विषये प्रदत्ता सूचना
हिमसंस्कृतवार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्रपतिं द्रौपदी मुर्मूवर्यां च राष्ट्रपतिभवने सम्मिल्य आपरेशन्-सिन्दूर इत्यस्य विषये सूचना प्रदत्ता । पाकिस्तानस्य आतङ्कि-स्थलेषु, पाकिस्तान-अधिकृतस्य जम्मू-कश्मीरस्य च आतङ्कि-स्थलेषु भारतेन विहितस्य आपरेशन्-सिन्दूर इत्यस्य समाप्ते: अनन्तरं एतत् मेलनम् अभवत्। आपरेशन् सिन्दूर इत्यस्य सफलतायाः कृते प्रधानमन्त्रिणा नरेन्द्रमोदिना सशस्त्रसेनायाः प्रशंसा कृता। सः नवदेहल्यां केन्द्रीयमन्त्रिणां सभां अभियानस्य विषये सूचयन् आसीत्। विभिन्नदलानां नेतारः भारतीय-सशस्त्र-सेनया संचालितस्य ऑपरेशन सिन्दूर इत्यभियानस्य प्रशंसाम् अकुर्वन्।