संस्कृतभारती, पश्चिमक्षेत्रस्य प्रशिक्षणवर्गस्य उद्घाटनसमारम्भः सम्पन्नः
वार्ताहर: – जगदीश डाभी
सौराष्ट्रप्रान्त: ।
संस्कृतभारती, पश्चिमक्षेत्रस्य प्रशिक्षणवर्गस्य ( ५ मईतः १७ पर्यन्तम्) उद्घाटनसमारम्भः मिनराजशैक्षिकसङ्कुले, भवनाथ-जूनागढे उत्साहपूर्णवातावरणे सम्पन्नः। अस्य कार्यस्य मुख्यं प्रयोजनं संस्कृतभाषायाः प्रचार-प्रसारः एवञ्च तस्याः शिक्षणस्य प्रोत्साहनं च आसीत्, येन भारतीयसंस्कृतेः परम्पराणां च संरक्षणं विकासः च सम्भवति। संस्कृतभारती, एकं तादृशं सङ्घटनम् अस्ति यद् विश्वस्य २७ देशेषु संस्कृतस्य निःशुल्कं प्रचारं प्रसारं करोति, १९८१ तमवर्षतः संस्कृतभारती संस्कृतभाषायाः तथा साहित्यस्य, परम्पराणां ज्ञानप्रणालीनां च संरक्षणाय प्रसाराय च निरन्तरं कार्यरता अस्ति। अस्मिन् उद्घाटनसमारम्भे पश्चिमक्षेत्रस्य विभिन्नराज्येभ्यः संस्कृतप्रेमिणः, शिक्षकाः, विद्यार्थिनः स्वयंसेवकाः च उत्साहेन समुपस्थिताः आसन् । कार्यस्य प्रारम्भः दीपप्रज्वलनवैदिकमन्त्र-उच्चारणेन च अभवत्, यत्र भवनाथस्य पवित्रवातावरणेन सर्वेषां मनसि आध्यात्मिकशक्तेः संचारः सञ्जातः। अस्मिन् अवसरे अध्यक्षरूपेण संस्कृतभारती-जूनागढस्य अध्यक्षः परमपूज्य आचार्यश्रीव्रजेंद्रकुमारजी, जूनागढस्य विधायकः श्रीसंजयभाई-कोरडिया, श्लोकपाठनकेन्द्रस्य अखिलभारतीयप्रमुखः डा. चिन्मयः आमशेकरजी, संस्कृतभारती-सौराष्ट्रप्रान्तस्य उपाध्यक्षः डाॅ. चेतनभाई त्रिवेदी, प्रान्तमन्त्री डाॅ. पङ्कजभाई त्रिवेदी, श्रीमिनराजशैक्षिकसङ्कुलस्य संस्थापकः एवञ्च शिक्षाविद् दादुभाई कनारा, राष्ट्रीयस्वयंसेवकसङ्घस्य सौराष्ट्रप्रान्तस्य कुटुम्बप्रबोधनस्य प्रान्तसंयोजकः डाॅ. कुमनभाई खुण्ट, संस्कृतभारती-पश्चिमक्षेत्रस्य सङ्घटनमन्त्री विट्ठलभाई भट्टः संस्कृतभारत्याः वरिष्ठपदाधिकारिणः च उपस्थिताः आसन्। तैः संस्कृतभाषायाः महत्त्वं प्रकटीकृत्य उक्तं यत्, “संस्कृतं केवलं भाषा नास्ति, अपितु भारतीयसंस्कृतेः हृदयं यत् अस्मान् अस्माकं मूलैः सह संयोजयति।” अस्य प्रशिक्षणवर्गस्य प्रयोजनं संस्कृतभाषायाः लोकभाषारूपेण प्रोत्साहनं शिक्षकानां तत्सम्बद्धं च सम्पादनम् अस्ति। अस्मिन् वर्गे संभाषणशिबिरस्यापि आयोजनं अभवत्, यत्र जूनागढनगरात् ८० अधिकाः विभिन्नस्तरस्य सामाजिकजनाः संस्कृतं पठितुं प्रतिदिनं प्रभाते ८:०० तः १०:०० पर्यन्तं घण्टाद्वयम् आगच्छन्ति। तदतिरिक्तं, अस्मिन् वर्गे संस्कृतस्य व्याकरणं, साहित्यं तस्य च आधुनिकप्रयोगाः विशेषरूपेण पाठ्यन्ते। अनेन प्रशिक्षणेन शिक्षकेभ्यः तादृशं कौशलं प्रदास्यति येन ते संस्कृतं सरलं रुचिकरं च पाठयितुं शक्नुवन्ति। समारम्भस्य प्रारम्भे प्रान्त-सहमन्त्री प्रणवः राज्यगुरुः प्रशिक्षणवर्गस्य प्रास्ताविकं प्रस्तुतवान्, संस्कृतभारत्याः अखिलभारतीयश्लोकपाठनकेन्द्रप्रमुखेन उक्तं यत्, “अनेन प्रशिक्षणवर्गेण वयं जनेषु संस्कृतं प्रति रुचिं प्रबोध्य नित्यजीवने तस्य संनादनाय प्रयतामहे।” तेन विशेषरूपेण उल्लिखितं यत्, अस्मिन् वर्गे सौराष्ट्रतः, गुजराततः, महाराष्ट्रतः गोवातः च प्रायशः ६० अधिकाः प्रशिक्षणार्थिनः भागं गृहीतवन्तः। अयं प्रशिक्षणवर्गः भवनाथ-जूनागढे पवित्रस्थाने वर्तते अतः तस्य महत्त्वं विशेषरूपेण वृद्धम्। संस्कृतभारत्याः एते प्रयासाः भारतीयसंस्कृतेः पुनरुत्थानाय संस्कृतभाषायाः विश्वव्यापिप्रसाराय च महत्त्वपूर्णं योगदानं दास्यन्ति इति आशास्महे। समापनावसरे, प्रान्तमन्त्री डाॅ. पङ्कजः त्रिवेदी सर्वेषां साधुवादं कृत्त्वा आगामिदिवसेषु एतादृशैः कार्यैः संस्कृतभाषायाः लोकप्रियतां वर्धयितुं सङ्कल्पं व्यक्तं कृतवान् । अस्य प्रशिक्षणवर्गस्य सफलतायै संस्कृतभारती-जूनागढस्य सर्वे कार्यकर्तारः बृहद् श्रमं कुर्वन्तः सन्ति इति संस्कृतभारती-सौराष्ट्रप्रान्तस्य प्रान्तप्रचारप्रमुखः डा. किशोरःशेलडियाः समाचारपत्रे उक्तवान्।