देशे सर्वत्र आपत्कालपूर्वाभ्यासस्य सज्जता प्रचलति। श्व: अनेकेषु राज्येषु भविष्यति आपत्कालपूर्वाभ्यास:।
देशे सर्वत्र आपत्कालपूर्वाभ्यासस्य सज्जता प्रचलति। पाकिस्तानेन सह प्रचलितेन विवादेन श्व: (७ दिनाङ्के) अनेकेषु राज्येषु आपत्कालपूर्वाभ्यासं कर्तुं सर्वकारेण निर्देशा: प्रदत्ता:। अस्मिन् काले नागरिकरक्षासम्बद्धेभ्य: जनेभ्य: आपत्कालीनस्थितिं निवारणार्थं प्रशिक्षणं प्रदीयते। आपत्कालपूर्वाभ्यासस्य अन्तर्गतं आपत्काले नागरिकानां सुरक्षां सुनिश्चेतुं प्रशिक्षणं भविष्यति। युद्धस्य आपदाया: स्थिते: वा पूर्वं आपत्कालपूर्वाभ्यासं क्रियते।
पाकिस्तानेन सह प्रचलिते विवादे NSA अजीतडोवालः मङ्गलवासरे प्रधानमन्त्रिणा सह मिलितवान्। तयो: मध्ये प्रायः ४० निमेषपर्यन्तं गहनचर्चा जाता। सञ्चारमाध्यमै: प्राप्तसूचनानुसारं सभायां भारतस्य शत्रो: दमनस्य रणनीत्याः विषये चर्चा अभवत्।