1.भारतस्य रक्षामन्त्री राजनाथसिंहः रविवासरे पहलगाम-आक्रमणस्य विषये अवदत् यद् देशे आक्रमणस्य प्रयासकर्तृणां विरूद्धे योग्यं प्रत्युत्तरं प्रदानम् अस्माकं दायित्वम्। प्रधानमन्त्रिण: नरेन्द्रमोदिन: नेतृत्वे भवन्त: यदिच्छन्ति तद् निश्चयेन भविष्यति।
2.बिहारराज्ये प्रथमवारं “खेलो इण्डिया” इति युवक्रीडायाः २०२५ इत्यस्या: शुभारम्भोऽभवत् । यस्य प्रधानमन्त्रीनरेन्द्रमोदी आभासीयमाध्यमेन उद्घाटनं कृतवान् ।
कार्यक्रमे मुख्यमन्त्रीनीतीशकुमार: एवं क्रीडामन्त्री मनसुखमाण्डविया, उपमुख्यमन्त्री सम्राटचौधरी, बिहारसर्वकारस्य सर्वे प्रमुखा: मन्त्रिण: अधिकारिणश्च उपस्थिता: अभवन्।
3.हिमाचलप्रदेशस्य षड् बालिकानां सीमासुरक्षाबलाय (BSF ) चयनम्। । याभि: बालिकाभि: देशे–विदेशे च क्रीडायां राज्यस्य गौरवं वर्धयते अधुना सीमासुरक्षायाम् अपि ता: योगदानं प्रदास्यन्ति। यासां कन्यानां चयनं कृतम् अस्ति तासु चतस्र: बिलासपुर जनपदस्य “मोरसिङ्घीहैण्डबॉलअकादमी” त: सन्ति । द्वे सिरमौरमण्डलस्य गिरिपारक्षेत्रत: स्तः ।
4.बद्दीऔद्योगिकनगरे राधास्वामीसत्सङ्गव्यासपक्षत: समायोजिते रक्तदानशिविरे २७५ (पञ्चसप्तत्याधिकद्विशतम्) जनै: रक्तदानं कृतम्, मानवतायाश्च सेवां कृतवन्तः।
5.हिमाचले “आङ्गनबाड़ी–केन्द्रेषु” समायोजितानि भविष्यन्ति स्वास्थ्यशिविराणि। लघुबालानां स्वास्थ्यपरीक्षणञ्च भविष्यति। सर्वकारेण कार्ययोजना सज्जीकृता।