भारत-अंगोलादेशौ कृषि-पारम्परिक-चिकित्सा-संस्कृतिसहितेषु विविधक्षेत्रेषु आदान-प्रदानं विहितवन्तौ
हिमसंस्कृतवार्ता: – भारत-अंगोलादेशौ कृषि-पारम्परिक-चिकित्सा-संस्कृतिसहितेषु विविधक्षेत्रेषु आदान-प्रदानं विहितवन्तौ। प्रधानमन्त्री नरेन्द्रमोदी एवं अंगोलायाः राष्ट्रपतिः जोआओ मैनुअल गोंकाल्वेस लौरेंको इत्यनयोः मध्ये नवदेहल्यां प्रतिनिधिमण्डल-स्तरीय-वार्तायाः एताः सन्धयः समभवन्। प्रधानमन्त्रिणा मोदिना प्रोक्तं यत् भारतदेशः आतङ्कवादीनां तेषां समर्थकानाञ्च प्रतिकारार्थं प्रतिबद्धोऽस्ति । प्रधानमन्त्रिणा अवसरेऽस्मिन् अंगोलादेशस्य सेनायाः आधुनिकीकरणार्थ द्विशत-मिलियन डालरमितात्मिकायै रक्षा-ऋण-सहायतायै अपि सहमतिः प्रकटिता। मोदिना प्रोदीरितं यत् भारत-अंगोलादेशौ वर्षेऽस्मिन् स्वकीय-राजनयिक-सम्बन्धानां चत्वारिंशत्तमाम् वर्षपूर्ति समाचरतः। तेन अफ्रीकी-संघस्य अध्यक्षतायै अंगोलादेशाय स्वकीयाः शुभकामनाः प्रकल्पिताः। तेनोक्तं यत् भारतदेशाय अयं गर्वस्य विषयः यत् भारतस्य जी-विंशतिः अध्यक्षतायामेव अफ्रीकी-संघेन जी-विंशत्यां स्थायी सदस्यता सम्प्राप्ता। प्रधानमन्त्रिणा सबलं प्रोदीरितं यत् भारत-अफ्रीकीसङ्घौ प्रगत्यां सहभागिनौ वर्त्तते सहैव वैश्विकदक्षिणस्य कीर्तिस्तम्भावपि स्तः। अवधेयं वर्त्तते यत् अंगोलायाः राष्ट्रपतिः त्रिदिवसीय-राजकीय-भारतयात्रायै नवदेहलीं सम्प्राप्तवान्। तेन सह उच्चस्तरीय प्रतिनिधिमण्डलमपि समागतः, यस्मिन् नैके मन्त्रिणः, वरिष्ठाधिकारिणः, व्यापारिणः वार्ताहराश्च सम्मिलितास्सन्ति। अंगोलादेशस्य राष्ट्रपति-लौरेंको इत्येतस्य राष्ट्रिय-राजधान्यां राष्ट्रपतिभवनस्य प्राङ्गणे औपचारिकं स्वागतं समभवत्। राष्ट्रपतिः द्रौपदी-मुर्मुः प्रधानमन्त्री नरेन्द्र मोदी च अंगोला-राष्ट्रपतेः स्वागतं कृतवन्तौ । वार्ताहरैस्सह संवादक्रमे राष्ट्रपतिः लौरेंको इत्येषः प्रोक्तवान् यत् अष्टत्रिंशत्-वर्षेषु इयं प्रथमा राजकीय-यात्रा वर्तते अंगोलायाः कृते अयं महत्वपूर्ण-क्षणः वर्तते। अवसरेऽस्मिन् वार्ताहरान् सम्बोधयन् विदेशमन्त्रालयस्य सचिवः दम्मू रविः विज्ञापितवान् यत् अंगोलादेशः भारतात् रक्षोपकरणानि क्रेष्यति ।
भारत-अंगोलादेशौ कृषि-पारम्परिक-चिकित्सा-संस्कृतिसहितेषु विविधक्षेत्रेषु आदान-प्रदानं विहितवन्तौ
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
