नवदेहल्यां केन्द्रीय- ग्रामीणविकास- राज्यमन्त्रिणा कमलेश पासवानेन सह मिलितवान् लोकनिर्माणमन्त्री विक्रमादित्यसिंहः
हिमसंस्कृतवार्ता:- शिमला।
लोकनिर्माणमंत्री विक्रमादित्यसिंहः नवदेहल्यां केन्द्रीयग्रामीणविकासराज्यमन्त्रिणा कमलेश पासवानेन सह मिलितवान्। असौ केन्द्रीयराज्यमन्त्रिण: पीएमजीएसवाई-४ इत्यस्मिन् समावेशार्थं सत्यापनस्य लम्बनपर्यन्तं ६३७ बस्तयः शीघ्रं निस्तारणं कर्तुम् आग्रहं कृतवान्। सः सूचितवान् यत् राज्यस्य ५७ प्रतिशतं मार्गाः पीएमजीएसवाई- अन्तर्गतं निर्मिताः सन्ति, एतेषां मार्गाणाम् अनुरक्षणार्थं प्रतिवर्षं २५० कोटिरूप्यकाणि व्यय्यन्ते, तथापि राज्यस्य कठिनभौगोलिकस्थितिं दृष्ट्वा अधिकधनस्य आवश्यकता वर्तते। सः मार्गस्य परिपालनाय वर्तमानवित्तवर्षस्य अतिरिक्तधनस्य व्यवस्थापनमपि आग्रहं कृतवान्। विक्रमादित्यसिंहः उक्तवान् यत् पीएमजीएसवाई- १ इत्यस्य अन्तर्गतं निर्मितानाम् त्रयाणां मार्गाणाम् उन्नयनस्य आवश्यकता वर्तते, एतान् मार्गान् पीएमजीएसवाई- ४ मध्ये समावेष्टुम् आग्रहं च कृतवान्। पीएमजीएसवाई-3 अन्तर्गत पथपरियोजनानाम् अनुमोदनं कृत्वा पीएमजीएसवाई-1 इत्यस्य अन्तर्गतं डोडराक्वार- बड़ाभङ्गालक्षेत्रे चतुर्ण्णां मार्गपरियोजनानां कार्यस्य विस्तारं 31 मार्च 2026 पर्यन्तं कृत्वा केन्द्रीयमन्त्रिणं धन्यवादं दत्तवान्। कमलेशपासवानः राज्याय सर्वसम्भवसहायतायाः आश्वासनं दत्तवान्। समागमे हिमाचलप्रदेशस्य लोकनिर्माणविभागस्य एवं मन्त्रालयस्य वरिष्ठाधिकारिण: अपि उपस्थिता अभवन्।