आङ्गनवाडीकेन्द्रेषु राशनवितरणस्य व्यवस्था परिवर्तिता
हिमसंस्कृतवार्ताः। किशोरी, गर्भिणी, स्तनपानं कुर्वतीनां महिलानां, बालकानां च कुपोषणं निवारयितुं सर्वकारः आंगनबाडीकेन्द्रद्वारा गृहे गृहे राशनस्य अन्तर्गतं शुष्कराशनं वितरति, परन्तु बहुवारं पोषणयुक्तं भोजनं लाभार्थिनं न प्राप्नोति इति सूचनाः प्राप्यन्ते। योजनायां विशालः भ्रष्टाचारः भवति। एतादृशौ परिस्थितौ इदानीं नूतना व्यवस्था कार्यान्विता अस्ति । एतस्याः समस्यायाः निवारणाय सर्वकारेण पारदर्शीव्यवस्थायाः कार्यान्वयनस्य दिशि जनवरी-मासस्य प्रथमदिनात् मुखसत्यापनं, ओटीपी-व्यवस्था च कार्यान्विता अस्ति । आंगनवाडीकेन्द्रे दुर्बलवर्गपरिवारस्य बालकानां, गर्भिणीनां, स्तनपानं कुर्वतीनां च महिलानां तथा किशोरीणां च पूरकपोषणं प्रदत्तं भवति। एषा व्यवस्था Take Home Ration (THR) इति नाम्ना प्रसिद्धा अस्ति । अस्याः व्यवस्थायाः अन्तर्गतं कुपोषणस्य समस्यां निवारयितुं प्रयत्नाः क्रियन्ते ।
आङ्गनवाडीकेन्द्रेषु राशनवितरणस्य व्यवस्था परिवर्तिता
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
