दरभंगा। ग्रेगोरीयपञ्चाङ्गानुसारं २७ अप्रैल २०२५ दिनाङ्के, विक्रमाब्दस्य ज्येष्ठशुक्लपञ्चम्याः पुण्योपलक्ष्ये, अखिलभारतीय- मैथिलमहासभाभवने, बलभद्रपुरे, लहेरियासराये, दरभङ्गायाः भव्यप्राङ्गणे, ऐक्येन ऐतिहासिकपण्डितसभाया आयोजनं सम्पन्नम्।
सभायाः अध्यक्षता विशेषसञ्चिका च
सभायाः अध्यक्षता कुलपतिना प्रो. लक्ष्मीनिवासपाण्डेयवर्येण कृतम्। कार्यक्रमस्य शोभायै पूज्यः महन्ता मौनीबाबा विशेषरूपेण आगतः। सभाया आरम्भे मौनीबाबायाः श्रद्धापूर्वकं सत्कारः कृतः। अनन्तरं तेन स्वकरकमलेन उपस्थितानां सर्वेषां पंचाङ्गकाराणां विदुषां च अंगवस्त्रसम्मानचिह्नप्रदानेन आदरपूर्वकं सम्माननं कृतम्, येन सभायाः वातावरणं भक्तिमयं गरिमायुक्तं च जातम्।
विदुषां पंचाङ्गकाराणां शिक्षकाणां च गरिमामयी उपस्थिति:
कार्यक्रमे मिथिलायाः प्रमुखपञ्चाङ्गानां विद्यापतिपञ्चाङ्गः, वैदेहीपञ्चाङ्गः, महावीरपञ्चाङ्गः, गोपीकृष्णमिथिलापञ्चाङ्गः, सर्वमङ्गलपञ्चाङ्गः पंचाङ्गकाराः सादरम् आमन्त्रिताः आसन्।
बिहारराज्यस्य शिक्षकाणाम् अतिथिशिक्षकाणां च मध्ये सरोजकुमारः, डॉ. रामकुमारझाः, त्रिलोककुमारझाः, राघवनाथझाः, अजीतकुमारः, चन्दनकुमारः च विशेषरूपेण उपस्थिताः, येषां गरिमामय्या उपस्थित्या कार्यक्रमः नूतनं वैभवं प्राप्तवान्।सभायां भागग्रहणकर्तारः अन्ये विद्वांसः आचार्यगणः च प्रो. रामचन्द्रझाः, शिवेन्द्रझाः, देवीनन्दनझाः, अजयमिश्रः, मुक्तिकुमारझाः, सुजनझाः, प्रो. शशिनाथझाः, भुवनेश्वरमिश्रः, डॉ. राजनाथझाः, डॉ. हरेंद्रकिशोरझाः, डॉ. घनश्यामझाः, डॉ. जनेश्वरझाः, डॉ. गोविन्दझाः, डॉ. कुणालकुमारझाः, डॉ. राकेशकुमारझाः, डॉ. वरुणकुमारझाः, वैद्यनाथचौधरी च आसन्।
पंचाङ्गनिर्माणे एकरूपतायाः संकल्पः-सभायाः मुख्यः उद्देश्यः आसीत् यत् विक्रमसंवत्सरस्य २०८२, शकसंवत्सरस्य १९४७ च वर्तमाने पर्वव्रतमुहूर्तेषु सम्पूर्णैक्यं सुनिश्चितं भवेत्। गम्भीरचिन्तनचर्चायाः अनन्तरं सर्वसम्मत्याः द्वारा निर्णयः कृतः यत् आगामिकाले सर्वे पंचाङ्गकाराः एकतया तिथीपर्वोत्सवानाम् एकरूपसूच्याः प्रकाशनं करिष्यन्ति।
दुःखदघटनायाः श्रद्धाञ्जलिसभा
कार्यक्रमसमाप्तेः पूर्वं पहलगामे (जम्मू- काश्मीरराज्ये) जातायाः दुःखदघटनायाः सन्दर्भे दिवङ्गतात्मनां प्रति श्रद्धाञ्जलिं अर्पयित्वा शोकसभया सह कार्यक्रमः सम्पन्नः। समस्तसभासद्भिः द्विनिमेषपर्यन्तं मौनं धृतम्, दिवङ्गतानामात्मनां प्रति गहनं संवेदनं व्यक्तं च, तेषां परिवारजनानां कल्याणाय प्रार्थना च कृता।
मिथिलायाः ज्योतिषपरम्परायाः नवजागरणम्
एषा सभा मिथिलायाः ज्योतिषपरम्परायाः नवजागरणस्य साक्षिणी जाता, भविष्याय सुदृढां दिशां निर्दिष्टवती।
२०२५-२६ वर्षे मुहूर्ते च विशिष्टपर्वणां घोषणा
हिमसंस्कृतवार्ता:- अंकुश कुमार:। सौराठससौला सभा आगामी उपनयनं, विवाहं, द्विरागमनं, मुण्डनं, गृहप्रवेशं, गृहारम्भं च शुभकार्याणि मुहूर्तानां सूची च विशिष्टपर्वाणां तिथयः घोषिता:। पारम्परिके सनातनपरम्परे अनुसारेण निम्नलिखिततिथी: शुभा मानीतं।
मुहूर्तसूची:
१. सौराठससौला सभा – ०२ जुलाई २०२६ तः १२ जुलाई २०२६ पर्यन्तम्।
२. उपनयनमुहूर्त:– जनवरी २९, फरवरी २२, २६, २७, मार्च २७ (क्षत्रियवैश्य), २९, अप्रैल २१ (छन्दोग), २७, जून १७ (क्षत्रियवैश्य), १९, २४, २५।
३. विवाहमुहूर्त:– नवम्बर २०, २१, २३, २४, २६, २७, ३०, दिसम्बर ०१, ०४, ०५, जनवरी २९, फरवरी ०५, ०६, ०८, १५, १९, २०, २२, २५, २६, मार्च ०४, ०९, ११, १३, अप्रैल १७, २०, २६, ३०, मई ०१, ०६, ०८, १०, १३, जून १९, २४, २५, २६, २८, २९, जुलाई ०१, ०२, ०३, ०६, ०९, १२।
४. द्विरागमनमुहूर्त:– नवम्बर २१, २३, २४, २६, २७, २८, दिसम्बर ०१, ०४, ०५, ०७, ०८, फरवरी १८, १९, २०, २२, २५, २६, २७, मार्च ०१, ०४, ०५, ०६, ०८, अप्रैल २०, २३, २४, ३०, मई ०१, ०३, ०४, ०६।
५. मुण्डनमुहूर्त:– नवम्बर २१, २७, दिसम्बर ०१, जनवरी २१, २३, २८, २९, फरवरी ०६, २०, २६, २७, मार्च ०५, ०६, अप्रैल २०, २३, २९, मई ०४, जून १७, २४, २५, जुलाई ०१, ०२, ०३, १५।
६. गृहारम्भमुहूर्त:– अगस्त ०६, ०८, ०९, ११, १३, अक्टूबर ३१, नवम्बर ०१, ०३, ०५, ०७, ०८, दिसम्बर ०१, ०४, जनवरी २९, फरवरी २७, २८, मार्च ०४, ०५, ०६, मई ०१, ०४, ०६, जून २५, २९, जुलाई ०१, ०२, ०३, ०४।
७. गृहप्रवेशमुहूर्त:– जुलाई ३०, ३१, अगस्त ०४, ०६, ०८, अक्टूबर ३१, नवम्बर ०१, ०३, २६, २७, दिसम्बर ०१, जनवरी २८, २९, ३०, फरवरी २५, २६, २७, २८, अप्रैल २३, २७, २९, ३०, जून २४, २५, २६, २७।
विशिष्टपर्वसूची-
मधुश्रावणी– २७ जुलाई २०२५
नागपञ्चमी– २९ जुलाई २०२५
विजयादशमी– ०२ अक्टूबर २०२५
कोजागरा पूर्णिमा– ०६ अक्टूबर २०२५
कृष्णाष्टमी– १६ अगस्त २०२५
हरितालिका तीज– २६ अगस्त २०२५
रक्षाबन्धनं, संस्कृतदिवसश्च– ०९ अगस्त २०२५
सिमरिया कल्पवास:– १८ अक्टूबर २०२५ तः १७ नवम्बर २०२५ पर्यन्तम्।
दीपावली– २० अक्टूबर २०२५
सोनपुर मेला– ०५ नवम्बर २०२५
विद्यापतिपर्व– ०३ नवम्बर २०२५
हरद्वारकल्पवास:– १४ अप्रैल २०२६ तः १५ मई २०२६ पर्यन्तम्
महाशिवरात्रि:– १५ फरवरी २०२६
रामनवमी– २७ मार्च २०२६
वट सावित्री व्रत– १६ मई २०२६
गंगा दशहरा– २६ मई २०२६
जगन्नाथरथयात्रा– १६ जुलाई २०२६
द्वारका महाकुम्भ– १७ जुलाई २०२६ तः १७ अगस्त २०२६ पर्यन्तम्
उक्ततिथयः प्राचीनज्योतिषसिद्धान्ते च परम्परागतविधानेन घोषिता:। श्रद्धालुजनाः कृपया एतानि तिथीषु स्वधार्मिककार्याणि च पारिवारिककार्याणि सम्पादयन्तु।
ज्योतिषशास्त्रस्य संरक्षणसंवर्धनअनुसन्धानाय समर्पिता स्वैच्छिकसंस्था
बलभद्रपुरम्, लहेरियासरायम्, दरभङ्गा (बिहारः) – ८४६००१
पं. विश्वनाथझाः ‘शास्त्रः’
(निदेशकः सचिवश्च
)